पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२८
नैषधीयचरिते


 मकरन्दपूर्णानि च जातानीति भावः । विवाहे उभयोः पाणिमेलनं, पाणौ दानजलाभिषेकोपि भवति ॥

विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था।
विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाननचन्द्रभाजम् ॥ १२५॥

 विकासीति ॥ हे प्रिये, इह तव केलिनद्यां वनस्था जलनिवासिनी, अथच-काननस्था, तथा-विकासि नीलमायतं विस्तृतं पुष्पमेव नेत्रं यस्यास्तत्तुल्यनेत्रा चयं प्रत्यक्षदृश्या इन्दीवरिणी यस्मान्मृगी वनस्थत्वाद्विकासिनीलायतपुष्पनेत्रत्वाच्च यतो हरिणी, तत्तस्मादिन्दीवरिणीरूपा मृगी आननमिव यश्चन्द्रः सामर्थ्यात्त्वदाननतुल्यो यश्चन्द्रस्तद्भाजं तत्स्थं कान्तं सुन्दरम् , अथच-तुल्यजातीयं स्वप्रियं, मृगमुपरिष्टाद्विलोकते । विकसितकुसुमनेत्राणि ऊर्ध्वं प्रसारितानि दृश्यन्ते तर्हि प्रायेण चन्द्रस्थमुपरिवर्तमानं निजभर्तारं मृगं पश्यतीत्यर्थः । त्वदाननमेव यश्चन्द्रस्तत्रस्थं चन्द्रन्वादनुमेयं मृगमुपरिष्टात्पश्यति । त्वं प्रासादोपरि वर्तसे, इयं चाघोदेशे वर्तते। 'न न' इति पदच्छेदं कृत्वा चन्द्रभाजं निजप्राणेशं मृगमुपरिष्टान्न पश्यतीति न, किंतु पश्यत्येवेति वा व्याख्येयम् । वनस्था मृगी हि प्रसारितनीलायतनेत्रा सती स्वकान्तं मृगमितस्ततो विलोकयति । 'शशम्' इत्यपपाठः मृगपर एव वा व्याख्येयः॥

तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः ।
अवैमि रात्रेरमृताधरोष्ठं मुखं मयूखस्मितचारुचन्द्रम् ॥ १२६॥

 तपस्यतामिति ॥ हे प्रिये, अम्बुनि सदा निवासात्तत्र तपस्यतां करवाणां कुमुदानां समाधेर्दिवा संकोचस्यैव ध्यानस्य भङ्गं त्याजने विषये निमित्त वा विबुधाङ्गनाया अप्सरोरूपाया रात्रेश्चन्द्र मुखमेवाहमवैमि मन्ये । किंभूतं मुखम्-अमृतमेवाधरोऽनूर्ध्व ओष्ठो यस्य, अथच-अमृततुल्योऽधरोष्ठो यस्य, यद्वा--अमृतमधरं यस्मानपीयूषादधिकरस ओष्ठो यस्य । तथा-मयूखाः किरणा एव स्मितम्, अथच-तत्समाधिभङ्गादेव चन्द्र करवदुज्ज्वलं यस्मितं, तेन चारू । चन्द्रविशेषणे लिङ्गविपरिणामः । देवाङ्गनानामप्येवंविधं मुखं रात्री जले तपस्यतां दुश्चरं तपश्चरतामपि मुनीनां समाधिभङ्गं करोति । तपश्चरतीत्यर्थे 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यप्, 'तपसः परस्मैपदं च' इति शता॥

अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषनीरा सरसी स्मरस्य ।
पानात्सुधानामजलेप्यमृत्यु चिह्नं बिभर्यत्रभवं स मीनम्॥१२७॥

 अल्पेति ॥ अल्पोङ्क एव पङ्को यस्यां, तथा-पीयूषमेव नीरं यस्यां सेयं विधुमण्डली सरस्य सरसी विशालं सर एव । अत एव-स स्मरः अत्र भवमस्यां चन्द्रसरस्यां समुत्पन्नं सुधानामेतदीयामृतानां पानादजले जलरहितेऽपि स्थले जलाभावेपि वाऽमृत्युं मरणरहितं मीनं चिह्नम्, अथच-सुधासरोजातत्वानुमाषकं लिङ्गं बिभर्ति । मीना हि