पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२९
द्वाविंशः सर्गः।


जलाद्बहिर्भूता म्रियन्त एव, अयं तु न म्रियते, तस्माचन्द्रामृतसरसीभवत्वात्सदामृतपानाज्जलाभावेपि मृत्युरहित इति सर्वं युक्तमित्यर्थः ॥

तारास्थिभूषा शशिजह्नुजाभृञ्चन्द्रांशुपांशुच्छुरितद्युतिर्द्यौः ।
छायापथच्छद्मफणीन्द्रहारा स्वं मूर्तिमाह स्फुटमष्टमूर्तेः ॥ १२८॥

तारेति ॥ द्यौः स्वमात्मानमष्टमूर्तेर्हरस्य मूर्ति शरीरं स्फुटं व्यक्तमाह ब्रवीति । किंभूता - तारा एवास्थीनि भूषा यस्याः । तथा शशिनमेव जह्नुजां, चन्द्रं गङ्गा च, बिर्भति भृत् । तथा -चन्द्रांशव एव पांसवो भस्मानि तैश्छुरिता कृताङ्गरागा द्युतिर्यस्याः । तथा-छायापथो गगने दण्डाकारा दक्षिणोत्तरस्था धवला रेखा छद्म यस्य छायापथच्छद्मरूपः फणीन्द्रो वासुकिः स एव मुक्ताहारो यस्याः सा । हरमूर्तिरप्युक्तविशेषणविशिष्टा । धौरप्येतादृशीति मूर्त्यन्तरापेक्षया व्यक्तमेव महेशस्य मूर्ति गगनं कथयतीवेत्यर्थः ॥

एकैव तारा मुनिलोचनस्य जाता किलैतजनकस्य तस्य ।
ताताधिका संपदभूदियं तु सप्ताधिका विंशतिरस्य यत्ताः ॥१२९॥

 एकेति ॥ एतस्य चन्द्रस्य जनकस्य तस्य प्रसिद्धस्यात्रिमुनिलोचनस्य तारा कनीनिका किलैकैय जातामृत किल पुराणादौ । अस्य तत्पुत्रस्य तु पुनरियं दृश्यमाना संपत् तातान्निजपितुरत्रिनेत्रान्सकाशादधिका । यद्यस्मादस्य चन्द्रस्य तास्ताः कनीनिकाः, अथच--- नक्षत्राणि, सप्तभिरन्विता विंशतिरभूदिति च्छलम् । पितुः सकाशादधिकसंपत्तिवात्सभाग्योडयमिति भावः । 'सप्तविंशतिमिन्दवे' इति । दक्षः सप्तविंशतिकन्याः अश्विन्यादिकाश्चन्द्राय ददाविति पुराणम् ॥

मृगाक्षि यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम् ।
यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्रभङ्गः खलु मन्मथस्य॥१३०॥

 मृगाक्षीति ॥ हे मृगाक्षि हरिणीनेत्रे, यदेतत्प्रत्यक्षदृश्यमिन्दोर्मण्डलं तत्स्मरस्य पाण्डुरं श्वेतं साम्राज्यसूचकमानपत्रमेव । श्वेतच्छत्रदर्शने सति सम्राजो वश्या भवन्ति । पूर्णधवलचन्द्रमण्डलस्य चोद्दीपकत्वात्तदर्शने सर्वेपि कामस्य वश्या भवन्ति । तस्मादेतत्कामस्य श्वेतातपत्रमेवेति भावः । यश्च पूर्णिमानन्तरमस्य च्छत्रभूतस्येन्दुमण्डलस्य भङ्गो मोटनं कलाक्षयश्च स मन्मथस्य च्छत्रभङ्गः खलु । छत्रस्य मोटनं राजक्षयं सूचयति । कृष्णपक्षं चोद्दीपकमित्रचन्द्रक्षये कामः क्षीण एव भवति, तस्मात्कृष्णपक्षे यास्य भङ्गः स कामस्य छत्रभङ्ग इव स एव वेति भावः । खलूत्प्रेक्षायां निश्चये वा ॥

दशाननेनापि जगन्ति जिवा सोयं पुरापारि न जातु जेतुम् ।
म्लानिर्विधोर्मानिनि संगतेयं तस्य त्वदेकानननिर्जितस्य ॥ १३१॥

दशेति ॥ दिग्विजयोद्यतेन दशाननेनापि जगन्ति जित्वापि योऽयं चन्द्रः पुरा पूर्वं