पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३०
नैषधीयचरिते


जातु कदाचिदपि जेतुं नापारि । हे मानिनि स्वमुखस्पर्धिनं चन्द्रमसहमाने भैमि, तस्य विधोरियं प्रत्यक्षदृश्या कलङ्करूपा म्लानिर्लज्जा संगता लग्ना, अथच युक्तैव । यतस्तवैकेनाननेन नितरां जितस्य । यो हि दशाननेन दशभिर्मुखैर्जेतुं नाशकि, तस्य स्त्रियास्तवैकेन मुखेन विजितत्वेन लज्जया मालिन्यमुचितमेवेत्यर्थः । त्वन्मुखमेतस्मादधिकमिति भावः । प्रतीयमानोत्प्रेक्षा । लज्जयापि म्लानिर्भवति । रावणश्चन्दं जेतुं प्रवृत्तस्तत्तुषाराग्निना दह्यमानः कम्पमानतनुस्तमजित्वैव परावृत्त इत्युत्तरकाण्डे कथा॥

दृष्टो निजां तावदियन्त्यहानि जयन्नयं पूर्वदशां शशाङ्कः।
पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं द्रक्ष्यसि भङ्गमस्य ॥ १३२ ॥

 दृष्ट इति ॥ शशाङ्क इयन्त्येतावन्ति अहानि शुक्लपक्षदिनानि तावदवधीकृत्य निजां पूर्वदशां पूर्वपूर्वदिनावस्था जयन् निकाममुत्तरोत्तरदिनेषु कलावृद्धयाधिकीभवंस्त्वया दृष्टः । इयन्ति दिनानि जयंस्तावत् जयन्नेव दृष्ट इत्यवधारणार्थो वा तावच्छब्दः । अनयैव परिपाट्या पूर्णबिम्बोऽयं त्वदास्येन सह तुलां साम्यम्,अथच-तोलकाष्ठं, प्राप्त आरूढश्चेत्, तर्ह्यनन्तरं निकटं त्वमेव श्वःप्रभृत्येवास्य भङ्गं पराजयं कलाक्षयं च द्रक्ष्यसि । उत्तमेन सह स्पर्धमानो हि भङ्गं प्राप्नोत्येव । तुलादिव्ये हि हीनस्य पराजयः सर्वैर्दृश्यते । अहानि, अत्यन्तसंयोगे द्वितीया । त्वदास्येन, 'अतुलोपमाभ्याम्-' इति निषेधेऽपि सहयोगे तृतीया । तथाच कालिदासः--'तुलां यदारोहति दन्तवाससा' इत्यादि ॥

क्षत्राणि रामः परिभूय रामान्क्षत्राद्यथाभज्यत स द्विजेन्द्रः ।
तथैव पद्मानभिभूय सर्वांस्त्वद्वपद्मात्परिभूतिमेति ॥ १३३ ॥

 क्षत्राणीति ॥ द्विजेन्द्रो जमदग्न्यपत्यत्वात्सोऽतिप्रसिद्ध पराक्रमी रामः परशुरामः सर्वाणि क्षत्राणि परिभूयापि क्षत्रादेव रामाद्दाशरथेः सकाशाद्यथाभज्यत पराभवं प्राप, तथा तेनैव प्रकारेणायमपि द्विजराजः सर्वान्पद्मानभिभूय संकोचकरणात्पराभूयापि त्वद्धपद्मात्सकाशात्परिभूतिं पराभवमेति । सकलक्षत्रियाधिक्यं यथा श्रीरामस्य तथा सर्वपद्माधिक्यं त्वन्मुखपद्मस्येति भावः । 'वा पुंसि पद्मम्' इत्यमरः ॥

अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये हरिणेन पश्य ।
इत्येष भैमीमददर्शदस्य कदाचिदन्तं स कदाचिदन्तः ॥ १३४ ॥

 अन्तरिति ॥ हे पश्ये चन्द्रदर्शनप्रवृत्ते भैमि, हरिणेन पाण्डुरेण रूपेण वर्णेन कत्री सुधांशोरन्तः प्रान्तभागः पूर्वमश्रीकोऽपीदानीं सलक्ष्मीक्रियते सश्रीः क्रियते त्वं पश्य । अथच-चन्द्रस्य मध्यं हरिणेन मृगेन कर्त्रा रूपेण स्वीयनीलवर्णेन कृत्या असलक्ष्म सलक्ष्म क्रियते सलक्ष्मीक्रियते सकलङ्कं क्रियत इत्यर्थः । पश्य । एष स नल इत्यमुना प्रकारेणास्य चन्द्रस्यान्तं पर्यन्तभागं कदाचित्क्षणमात्रं भैमीमददर्शत् दर्शया-