पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
नैषधीयचरिते

चोलक्षणममृतं तस्य कूपः । आकर इत्यर्थः । एवंभूतो यः कण्ठस्तस्माज्जाताः । मञ्जुलं सरसं च वच उवाचेति भावः । मृदु परिमृज्येति वा ॥


न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता।
त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥ ५१ ॥

 नेति ॥ हे हंस, तव आकृतिः स्वरूपं तुल्यत इति तुला उपमेयं तल्लक्षणे विषये न । उपमानाभावात्, किं तूपमानमेव । तुल्यतेनऽयेति तुला उपमानं तस्य विषये लक्ष्ये उपमेयमध्ये न तिष्ठति, किं तूपमानमेवेति वा । तथा ते सुशीलता सुस्वभावत्वं सुवृत्तत्वं वा वचोवर्त्मनि न वाग्गोचरो न । वर्णयितुं न शक्यत इत्यर्थः। तथा-आकृतौ गुणा इति 'यत्राकृतिस्तत्र गुणा वसन्ति' इति सामुद्रकशास्त्रस्य सारो रहस्यं तस्य मुद्रणा नियमना । संग्रह इति यावत् । सा त्वदुदाहरणा त्वमेवोदाहरणं दृष्टान्तो यस्याः । अन्यथा सा निर्विषया स्यादिति भावः । तवाकृतिं गुणांश्च दृष्ट्वा सामुद्रिकशास्त्रकारैः 'यत्राकृतिस्तत्र गुणा वसन्ति' इत्युक्तम् । उदाहरणं प्रथमदृष्टान्तस्त्वमित्यर्थः' इति वा । तुलेति कर्मणि करणे च 'घञर्थे कविधानम्' इति कः । ण्यन्तत्वात्तुलनेति यद्यपि भवितव्यम् । तथापि 'अतुलोपमाभ्याम्' इति निर्देशात्कप्रत्ययः । सामुद्रकेति समुद्रेण प्रोक्तमित्यस्मिन्नर्थे 'तेन प्रोक्तम्' इत्यणि स्वार्थे कन् । 'सामुद्रिक' इति पाठेऽणन्तादस्त्यर्थे 'अत इनि ठनौ' इति ठन् ॥

न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा।
न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा ॥ ५२ ॥

 नेति ॥ ननु संबोधने । तावकी तवेयं तनुः परं केवलं सुवर्णमयी हेमविकारो न, किंतु तावकी वागपि वाण्यपि तथा किं सुवर्णमयी शोभना वर्णा यस्यां सा। किं प्रश्ने । वाक्पटुत्वं, शरीरसौन्दर्यं च त्वय्येवेति सूचितम् । नु संबोधने न इति पृथक् । वागपि तथा न किम् , अपितु तथैवेति वा । अन्यच्च तव पक्षपातिता पक्षाभ्यां पतति गच्छत्येवंशीलः पक्षपाती तस्य भावस्तत्तानवलम्बे निरालम्बे पथि अन्तरिक्षमार्गे परं केवलं न, किं तु सा पक्षपातिता स्ववर्गान्तःपातित्वमनुकूलवर्तित्वमनवलम्बे निर्गतिके मादृशे मत्सदृशे किमु किं नेति वा । निरालम्बनस्य मम त्वमेवालम्बनमिति भावः ॥


भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् ।
धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः ॥ ५३ ॥


 १ 'अत्र 'भुजाग्रजन्मना कोकनदेनेति विषयस्यानिगरणेन विषयिणः कोकनदस्यवोपनिबन्धनादतिशयोक्तिः । 'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिसंमता ॥' इति लक्षणात् । सा च पाणिकोकनदयोरभेदोक्तिरभेदरूपा, तस्याः प्रियवादामृतकूपकण्ठेति रूपकसंसृष्टिः' इति जीवातुः । २ ण्यन्तादिति पाठ आसीत् । ३ 'अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गमलंकारः' इति जीवातुः। 'अत्रातिशयोक्तिरलंकारः काव्यलिङ्गं च' इति साहित्यविद्याधरी । ४ 'अत्र श्लेषोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । 'अत्र तनुवाचोः प्रकृताप्रकृतयोः सुवर्णमयीति शब्दश्लेषः । एवं पथि

मादृशेऽपि पक्षपातितेति इति सजातीयसंसृष्टिः । तया चौपमा व्यज्यते' इति जीवातुः।