पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३१
द्वाविंशः सर्गः।

मास, कदाचिश्चान्तर्मध्यभागं दर्शयामास । अङ्गुल्यादिना चन्द्रश्वेतनीलप्रान्तमध्यभागप्रदर्शनपूर्वं श्लिष्टपदैस्तया सह क्रीडां चकारेति भाव इति मध्ये कवेरुक्तिः। 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः । अन्त इत्यकारान्तमेकत्र, अन्तरित्यव्ययमपरत्र मध्यवाचि । लक्ष्मीशब्दस्य समासान्तविधैरनित्यत्वात्कवभावे सलक्ष्मीशब्दाच्च्विः । पक्षे सलक्ष्मशब्दाशिवः । पश्ये 'पाघ्रा-' (इत्या) दिना कर्तर्येव शः। दृशेर्बु[१]द्ध्यर्थत्वात् 'गतिबुद्धि-' इत्यणौ कर्तुर्णौ कर्मत्याद्भैमीमिति द्वितीया ॥

सागरान्मुनिविलोचनोदराद्यद्द्वयादजनि तेनकिं द्विजः ।
एवमेव च भवन्नयं द्विजः पर्यवस्यति विधुः किमत्रिजः ॥ १३५॥

 सागरादिति ॥ अयं चन्द्रः सागरात् मुनिविलोचनोदराच्चैतद्रूपाहूयात्सकाशाद्यद्यस्मादजनि उत्पन्नः, तेन कारणेन द्वाभ्यां जातत्वाद्विजः किम् । एवमेव चानयैव रीत्या द्वाभ्यां जातन्वादेव द्विजो भवन्नप्ययं विधुरत्रेर्मुनेर्जातः किं कथं पर्यवस्यति । द्वाभ्यां जातत्वे सत्यपि अत्रिमुनिरेव जात इति तात्पर्यवृत्त्या कथमुच्यत इत्यर्थः । अथच-एवमेव यथानेन प्रकारेण द्विजत्वं, तथैवात्रिमुनिजो भवन्नयं द्विजः पर्यवस्यति किम् । द्वाभ्यां जातत्वाद्यथा द्विज उच्यते, तथा द्विजादत्रिमुनेर्जातत्वादपि द्विज उच्यते किम् । हिजोत्पनौ हि द्विज एव भवतीत्यर्थः । अथच-द्वाभ्यां जातत्वाद्विजो भवन्नेव न त्रिभ्यो जायत इत्यत्रिज इत्येवं तात्पर्यवृत्त्या कथ्यते किम् । यो हि द्वाभ्यां जायते स त्रिजो न भवति, एवमेवायमत्रिजः कथ्यते किमित्यर्थः । अन्योपि द्विजास्त्रिजो न भवत्येव ॥

ताराविहारभुवि चन्द्रमयीं चकार
 यन्मण्डलीं हिमभुवं मृगनाभिवासम्।
तेनैव तन्वि सुकृतेन मते जिनस्य
 स्वर्लोकलोकतिलकत्वमवाप धाता ॥ १३६॥

 तारेति ॥ हे तन्यि कृशाङ्गि, धाता ताराणां नक्षत्राणां विहारभुवि गगने चन्द्रमयीं मण्डली बिम्बं जिनस्य पुराणपुरुषस्य श्रीविष्णोर्मतेऽनुमतौ सत्यां तदादिष्टः सन् यचकार निर्मम तेनैव सुकृतेन शोभनेन लोकोत्तरव्यापारेण कृत्वा स्वर्लोकः स्वर्गभुवनं तत्संबन्धिनां लोकानां सुराणां मध्ये तिलकत्वं श्रेष्ट्यमवाप । किंभूतां मण्डलीम्-हिमम्य तुषारस्य भुयं स्थानभूतामतिशीतलाम् । तथा-मृगस्य नाभौ मध्ये वासो यस्यास्तां, यस्या मध्ये मृगोस्तीति यावत् , तादृशीम् । अन्येषां सुराणामेतादृग्व्यापारकरणे सामर्थ्याभावाद्ब्रह्मैव श्रेष्ठोऽभूदित्यर्थः । अथच-ताराया बुद्धदेवस्य विहारस्थाने पूजास्थाने हिमभुयं शीतलां, शुभ्रत्याद्धिमाचलरूपां वा, तथा-मृगनाभेः कस्तूर्या वासः परिमलोऽवन्धानं या यस्यां तां कस्तुरीमिश्रितां चन्द्रमयीं कर्पूरमयीं मण्डलीं राशिं यञ्चकार तेनैव पुण्येन जिनस्य मते बौद्धदर्शने ब्रह्मा सुरश्रेष्ठत्वमधत्त । बौद्धा हि बुद्धदेवप्रासादे यस्तत्पूजार्थै कपुरकस्तूरीराशिं करोति स सर्वलोकमध्ये श्रेष्ठो भवतीति


  1. दृशेव इति वार्तिकस्योपलक्षणमिदम् । सूत्रे वृद्धिशब्दस्य ज्ञानविशेषवाचित्वाभावेन यथाश्रुतासंगतः ॥