पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३२
नैषधीयचरिते

स्वदर्शने प्रत्यपादयन् । ब्रह्मा चैवमकृत तस्मादेव सर्वश्रेष्ठो जात इत्यर्थः। 'तेनेव' इति पाठे-उत्प्रेक्षा । 'बुद्धदेव्यां मता तारा' ।

इन्दु मुखाद्बहुतृणं तव यद्गृणन्ति
 नैनं मृगस्यजति तन्मृगतृष्णयेव ।
अत्येति मोहमहिमा न हिमांशुबिम्ब-
 लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥ १३७ ॥

 इन्दुमिति ॥ हे हिमांशुबिम्बस्य लक्ष्म्याः शोभाया विडम्बि स्वस्मान्यूनत्वान्परिहासकारि ततोप्यधिकशोभं मुखं यस्यास्तादृशि भैमि, पण्डिता इन्दुं तव मुखात्सकाशात्वन्मुखमपेक्ष्य वा बहुतृणमीपदसमाप्तं तृणं, तृणत्वमपि यस्य पूर्णं न संपन्नं, तृणादपि निःसारमिति यावत् , अथच---वह्नधिकं तृणं यस्मात् तृणादपि निःसारं यद्यस्माद्गृणन्ति, तत्तस्माद्धेतोर्मृग एनं चन्द्रं मृगसंबन्धिन्या तृष्णया कोमलतृणकवलनाभिलाषेणैव, अथवा चन्द्रे प्रयुक्तस्य बहुतृणशब्दस्य बहु च तत्तृणं च, बहूनि तृणानि यस्मिंस्तादृशमिति वेत्येवंरूपार्थग्रहणरूपया भ्रान्त्येव न त्यजति । मृगो हि बहु यत्तृणं बहुतृणं देशं वा न मुञ्चति । नन्वनुभवे सत्यप्यासंसारं कथं भ्रान्तिरित्याशङ्कयार्थान्तरन्यासमाह-पाशवीषु पशुसंबन्धिनीषु वित्तिषु ज्ञानेषु विषये मोहमहिमा भ्रान्तिबा- हुल्यं नात्येति बहुकालातिक्रमेपि नापयाति । पशवो हि सर्वदा मूढा एवेत्यद्यापि मृगस्य भ्रान्तिर्नापयाति, तस्मादेनं न त्यजतीति युक्तमित्यर्थः । 'वृत्तिषु' इति पाठे-व्यपारेषु । मुखात्, ल्यब्लोपे पञ्चमी । बहुतृणं पक्षे ईषद्समाप्तौ 'विभाषा सुपी बहुच् । इति बहुच।

स्व[१]र्भानुना प्रसभपानविभीषिकाभि-
 र्दुःखाकृतैनमवधूय सुधा सुधांशुम् ।
स्वं निह्नते शितिमचिह्नममुष्य रागै-
 स्ताम्बूलताम्रमवलम्व्य तवाधराष्ठम् ॥ १३ ॥

 स्वर्भानुनेति ॥ हे प्रिये, सुधा एनं सुधांशुमवधूय त्यक्त्वा तवाधरोष्ठमयलम्ब्यामुष्य रक्तस्यौष्ठस्य रागै रक्तवर्णैः कृत्वा सितस्य भावः सितिमा धावल्यमेव चिह्नं यस्य तादृशं धवलरूपमपि स्वमात्मानं निह्नुते पुनः पुनः स्वर्भानुपानभिया तिरो दधाति । यतः -स्वर्भानुना वारंवारं प्रसभपानेन विभीषिकाभिर्भयोत्पादनैः कृत्वा दुःखाकृता प्रातिलोम्याचरणेनोत्पादितदुःखा । किंभूतमधरोष्ठम्-प्रसिद्धस्य ताम्बूलस्येव ताम्रो वर्णो यस्य, ताम्बूलेनैव वा तानं रक्तवर्णम् । पुना राहुपानभिया त्वदधरमेव स्थाना-


  1. 'स्वर्भानुरिति क्षुम्नादित्वात् 'पूर्वपदात्-' इति न णत्यम्' रायमुकुटः ।