पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३३
द्वाविंशः सर्गः।


न्तरमाश्रित्य रूपान्तरेणात्मानं गोपायतीत्यर्थः । अन्योपि सभयं स्थानं हित्वा स्थानान्तरमाश्रित्य तत्रापि रूपान्तरं धृत्वा स्वं निह्नुते । सुधया चन्द्रस्य परित्यागात्त्वन्मुखाश्रयणात्त्यन्मुखं चन्द्रादधिकमिति भावः । ताम्बूलताम्रमित्युक्तरीत्योपमोत्प्रेक्षा वा । दुःखाकृता, 'दुःखान्प्रातिलोम्ये' इति डाच् ॥

हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं
 जातस्फीततनोरमुप्य हरिता सूतस्य पत्न्या हरेः ।
भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्मात्तदेकाकिनः
 स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः॥१३९॥

 हर्यक्षीनि ॥ प्रिये, मतभेदेन कलङ्करूपं कुरङ्गं, यद्वा-शशमुदरे मध्ये प्रक्षिप्य जाता स्फिता पूर्णा तनुर्यस्य, हरेरिन्द्रस्य पत्न्या हरिता प्राच्या दिशा सूतस्य तत्रोदितस्य पूर्णस्य, अतएव हरेः श्रीविष्णोर्वामाक्षीभवतः, यद्वा-संजातपूर्णशरीरस्य मृगं, यद्वा शशं, कलङ्कं मध्ये निक्षिप्य मध्यस्थितकलङ्कस्य कनीनिकातुल्यत्वाच्छीविष्णावामनेत्रीभवतोऽमुष्य चन्द्रस्य त्वद्वदनाम्बुजात्सकाशाद्यद्भङ्गः पराजयोऽजनि, तदेकाकिनः सर्वदाऽसहायादेकस्मात्पद्मात् , नत्वन्यस्मात्कमलात् , नह्यन्यैः पद्मैरयं पराजीयते यत्पुनरयमेव पद्मान्पराभवतीत्यर्थः । अथवा---अम्बुजतुल्यात्त्वद्वदनादेव पद्माद्, अथच पद्मसंख्याकात्त्वद्वदनरूपादम्बुजाद्यदस्य भङ्गो जातः, तदेकाकिनोऽसहायस्य स्याद्भवेत् । बहुभिरेकः पराजीयत इति युक्तमेवेत्यर्थः । यः सिंहिकायाः सुतो राहुः स पुनरेकोडन्योऽस्य प्रतिभटः प्रतिमल्लः पराभावुको राहुरेव नत्वन्य इति । 'संप्रति' इनि पाठे-अद्य पुनरस्यैकः प्रतिभटः, यः सिंहिकायाः सुतः स्यात् । एकाकिनोऽस्य त्वन्मुखपद्मः प्रतिद्वन्द्वी न भवति, अतुल्यत्वात् , किंत्वेकाकी राहुरेवास्य प्रतिभटो युक्त इत्यर्थः । किंच स्वशत्रुभृताद्राहोरप्यस्यान्यः पराजय इति महदस्य कष्टं प्राप्तमित्यर्थः । अथच हरिद्वर्णया हरेः सिंहस्य पत्न्या सिंहिकया प्रसूतस्य, तथा मृगं शशं वा यं कंचन पशुं जठरे निक्षिप्य भक्षयित्वा स्थितस्य, अत एव संजातपुष्टशरीरस्य, अतएव हर्यक्षीभवतः सिंहतां प्राप्नुवतोऽस्य त्वन्मुखाद्यः पराजयोऽजनि स एकाकिनः केवलात्पद्माद्नजादेव पराजयः । सिंहस्य गजाद्भङ्गो यथा तद्वदेतन्महच्चित्रमित्यर्थः । अथच-पद्मसंख्याकादेकस्य पराजयः । सिंहोऽप्येको बहुसंख्यैः पराजीयत एवेत्यर्थः । अथच-पद्माच्छरभादष्टापदादेव भङ्गः सिंहस्य केवलमष्टापदादेव भङ्गः। पद्मचन्द्राभ्यां सकाशान्यन्मुखमधिकमिति भावः । 'हर्यक्षः केसरी हरिः' इत्यमरः । 'गजाप्जसम्भाः पमाः' इत्यनेकार्थे भोजः । प्रथमपक्षे हर्यक्षिशब्दाच्च्विः, द्वितीयपक्षे हर्यक्षशब्दादेव ॥

यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभू-
 र्वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये तावकम्