पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३४
नैषधीयचरिते

कः शीताशुरसौ तदा मखमृगव्याधोत्तमाङ्गस्थल-
 स्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी वक ॥ १४० ॥

 यदिति ॥ हे प्रिये, वेधा नयनद्वयमेवोत्पलं तन्मयीं तद्रूपां तद्रचितां यस्य पद्मस्य पूजां व्यधायरचयत् । यतः श्रीविष्णोर्नाभौ वर्तमानात्पद्माद्भवतीति पद्मभूः । स्वजनकस्य यस्य पद्मस्य पितृभक्त्या नेत्रद्वयेनैव नीलोत्पलयुगेन महतीं पूजामकृत । वाक्यारीणा वाचः परतीरे भवा वाचा वर्णयितुमशक्या रुचिर्यस्य सोऽयं पद्मश्चेत्तावकं मुखं स एव भवन्मुखरूपो जातः, अनन्तरं ब्रह्मणा स्वपितृबुद्ध्या नेत्रनीलोत्पलाभ्यां कृतपूजत्वादत्र तव मुखे नेत्रनीलोत्पले दृश्यते इत्यर्थ इति चेत् । तदा तर्हि असौ शीतांशुः को नाम, अपितु न कश्चित् । त्वन्मुखस्य पुरस्तादयं वराकः स्मरणार्होऽपि नेत्यर्थः। तर्ह्यसौ क इति चेत्तत्राह-अयं वकः । किंभूतः---दक्षमख एव मृगस्तस्य व्याधो परस्तस्योत्तमाङगं शिरस्तल्लक्षणे स्थले स्थास्नुः स्थितिशीला स्वस्तटिनी गङ्गा तस्यास्तटावन्यां तीरभूम्यां या वनी महदल्पं वा यत्काननं तत्र ये वानीरा वेतसास्तन्मध्यवासी । चन्द्रश्च हरजटाजूटवासीति प्रसिद्धम् । वाक्पारीणरुचिरिति ब्रह्मविशेषणं वा। अत्र यदपत्यस्य ब्रह्मणोपि सौन्दर्यं वागगोचरः, तत्पितुः पद्मस्य सौन्दर्यं मनसोपि गोचरी न भवतीत्यर्थः । त्वन्मुखस्य चन्द्रस्य च महदन्तरम् , साम्यसंभावनापि नास्तीति भावः। एतेन चन्द्रादिसुन्दरवृन्दं ब्रह्मणा सृष्टम् , भवदीयमुखपद्मं तु ब्रह्मणोपि स्रष्टृत्वान्सर्वाधिकमिति सूचितम् । मखमृगेत्यादिना चन्द्रस्यातिदैन्यं सूचितम्, त्वन्मुखसाम्यप्राप्त्यर्थं तपश्चरणं च सूचितम् । अन्योपि विशिष्टवस्तुप्राप्तये शिवस्थानयुक्तनदीतीरवानीरवासी तपस्यति । नदीतीरवानीरवासित्वं बकजातिः । वाक्पारीणा, भवार्थे राष्ट्रावारपाराद्धखौ' इत्यत्र 'अवारपाराद्विपरीतादपि, विगृहीतादपि' इति वचनान्यः ॥

जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्या-
 मश्यामावैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य ।
इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्ड-
 द्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के ॥१४१॥

 जातमिति ॥ अहमिन्दोरङ्के बलविजयिन इन्द्रस्य गजग्रामणीर्हस्तिषु मध्ये प्रधानं प्राच्यामेव वर्तमानो य ऐरावतस्तस्य गण्डयोः कपोलयोः पिण्डयाः शिरस्थितकुम्भस्थलयोश्च ये द्वन्द्वे गण्डद्वन्द्वं पिण्डद्वन्द्वं च ते एवापादानं निर्गमनस्थानं येषां न च ते दानद्रवलवा मदजललेशास्तेषां लगनात्संपर्कात्काकतालीयमाकस्मिकं दैवात्सिद्ध मिन्दीवराभं नीलोत्पलतुल्यं जातमङ्कं कलङ्कं विशङ्के मन्ये । किंभूतस्येन्दो:----अस्यामङ्गुलीनिर्दिष्टायां पुरोदृश्यायां शतक्रतोरियं शातकतवी तस्यां हरिति दिशि विहरत उद्गच्छतः। तथा--अश्यामत्वे विषये ऐकमत्यं सर्वसंवादस्तेन तत्र वा स्थिताभिर्वर्तमानाभिः सकलाभिः पञ्चदशभिरपि कलाभिः कृत्वा निर्मितिर्यस्य । अश्यामत्वैकमर्त्येन