पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३४
द्वाविंशः सर्गः।

स्थिता सकल कलानिर्मितिर्यस्य तादृशस्य वा । अतएव-निर्मलस्य प्रत्येकं कलानां धावल्यस्य दृष्टत्वाद्धवलसकलकलानिर्मितत्वात्कारणधावल्याद्धवलस्य, अश्यामत्वैकमत्य स्थितायाः सकलाः कलास्ताभिर्या निर्मितिस्तस्या वा हेतोर्धवलस्य । पूर्व कारणधावल्यात्सकलोऽप्ययं धवल एवाभूत्, पश्चात्तु पूर्वदिग्भ्रमणवशात्तत्रैव भ्रमत ऐरावतस्य कपोलकुम्भस्थलगलन्मदजलं दैववशाल्लग्नं तेनायं मध्ये कालः प्रतिभातीत्यर्थः । तालतरुतले, यदैव काकस्योपवेशनम्, तदैव दैवात्काकस्योपरि तालफलपात इति काकतालमिव, 'समासाच्च तद्विपयात्' इति छः । निर्मितेः, पक्षे हेतौ पञ्चमी ॥

अंशं षोडशमामनन्ति रजनीभर्तुः कलां वृत्तय-
 न्त्येनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्धिष्णवः ।
या शेषा पुनरुद्धृता तिथिमृते सा किं हरालंकृति-
 स्तस्याः स्थानबिलंकलङ्कमिह किं पश्यामि सश्यामिकम ॥१४२॥

 अंशमिति ॥ हे प्रिये, लोकाः रजनीभर्तुः षोडशमंशं कलामामनन्ति सत्यं कथयन्ति, ताश्च षोडशांशरूपाः प्रतिपदादिर्यस्मिन्कर्मणि राकां पूर्णिमामभिव्याप्य वर्धिष्णवः प्रतितिथि एकैककलाभिवृद्द्या वर्धमानाः पञ्चदशसंख्याका एव कला एनं चन्द्रं वृत्तयन्ति वर्तुलं कुर्वन्ति । तिथिसंख्यासाम्यात्पूर्णमण्डलं कुर्वन्तीत्यर्थः। या पुनः कला षोडशी तिथिमृते उद्धृता प्रयोजनाभावाच्चन्द्राद्वहिः कर सा पोडशी कला शेषा पञ्चदशकलाभ्यो ऽवशिष्टा सती, यद्वा पोडशीं तिथिं विना प्रयोजनाभावाद्यावशिष्टा सा निष्प्रयोजनत्वादुद्धृता चन्द्राद्वहिर्निष्कासिता सती हरालंकृतिः शिवशिरोभूषणं जाता किम् । चन्द्रे प्रयोजनाभावाद्धरालंकृतिरिवाभूत्किमित्यर्थः । अहं तस्याश्चोद्धृतायाः षोडस्याः कलायाः पश्यामिकं नमो नीलिम्रा सह वर्तमानं स्थानस्य पूर्वावस्थितेः संबन्धि विलं. विवरं तकलानग्धत्या कृत्वा शून्यं नीलं नभोभागमेवेह चन्द्रमण्डलमध्ये कलङ्कं पक्ष्यामि किमं । मध्यवर्तिनीलं तत्स्थानं बिलमेवाहं कलङ्कत्वेन शङ्के इत्यर्थः । शेषशब्दस्याभिधेयलिङ्गत्वं पूर्वमेव दर्शितम् । 'पूर्ण राका निशाकरे' इत्यमरः । वृत्तयन्ति, 'तत्करोति-' इति णिच् । वर्धिष्णवः, अलंकृञ्-'इतीष्णुच् । तिथिमृते,'ऋते नलाशाम्' इति बत् । क्ष्यामिका, मनोशादराकृतिगणत्वाद्भावे बुञ् ॥

ज्योत्स्नामादयते चकोरशिशुना द्राधीयसी लोचने
 लिप्सुर्मूलमिवोपजीवितुमितः संतर्पणात्मीकृतात् ।
अङ्के रखमयं करोति च परिस्प्रष्टुं तदेवादृत-
 स्त्रद्वक्रं नयनश्रियाप्यनधिकं मुग्धे विधिन्सुर्विधुः ॥१४३॥

 ज्योत्स्नामिति ।। हे मुग्धे सुन्दरि, त्वद्वक्रं वृत्तत्वादिगुणैः समानमपि नयनश्रियापि कृत्यानधिक समानमेव विधित्सुः, अत एव-स्वस्य द्राघीयसी अतिदीर्घे लोचने लि-