पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३६
नैषधीयचरिते

प्सुर्लब्धुमिच्छुर्विधुश्चकोरशिशुना प्रयोज्येन स्वीयां ज्योत्स्नामादयते भक्षयति। तत्रोत्प्रेक्षते-चन्द्रिकामृतपायनकृतसम्यक्तर्पणेनात्मीकृतात्स्ववशीकृतादितश्चकोरबालकाकाशान्मूलं स्वचन्द्रिकापायनहेतुभूतमेतदीयातिदीर्घनेत्रद्वयमुपजीवितुमादातुमिव । यद्वा-यत्किंचित्स्वस्य चन्द्रिकां पाययित्वा ततो नेत्रद्वयलक्ष्मीप्राप्त्या मूलं चन्द्रिकारूपधनं वर्धयितुमिव । अन्योप्युत्तमणोऽधमर्णस्य किंचिद्दत्त्वा तं वशीकृत्योत्तममिष्टं वस्तु ततो गृह्णाति । तथा-अयं चन्द्र आदृत आदरयुक्तः सन्नङ्के मध्ये, अथच-उत्सङ्गे, रङ्कुच करोति । उत्सङ्गधारणेन लालयतीत्यर्थः। किमर्थमित्याशङ्कयाह-तन्मूलभूतमतिविशालं तदीयनयनयुगलं परिस्प्रष्टुमिव स्वलग्नं कर्तुमिव । त्वन्मुखसाम्यनिमित्तरमणीयनेत्रद्वयसंपादनायायं चन्द्रश्चकोरहरिणौ वञ्चयतीत्यर्थः । चन्द्रादुत्कृष्टं त्वन्मुखमिति भावः । 'परिप्रष्टुम्' इति पाठे एतन्नेत्ररामणीयकप्राप्त्युपायं प्रष्टुमिवेत्यर्थः । शिशुः सुप्रतार्य इति सूचयितुं शिशुपदम् । आदयते, अदेर्निगरणार्थत्वेपि 'अदेः प्रतिषेधो वक्तव्यः' इति वक्तव्यात् 'निगरण-' आदि (सूत्रेण) परस्मैपदाभावे, ‘णिचश्च' इति तङ् । शिशुना, 'आदिखाद्योर्न' इत्यणौ कर्तुर्णौ कर्मत्वाभावः। द्राघीयसी, अतिशायने ईयसुनि 'प्रियस्थिर-' इति द्राघादेशः। लिप्सुः, विधित्सुरिति च, 'न लोका-' इति षष्ठीनिषेधः॥

लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा
 चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण तु ।
निर्माय द्वयमेतदप्सु विधिना पाणी खलु क्षालितौ
 तल्लेशैरधुनापि नीरनिलयैरम्भोजमारभ्यते ॥ १४४ ॥

 लावण्येनेति ॥ हे प्रिये, बहुना क्वचित्पात्रे संचितेनाखिलेन लावण्येन कृत्वा तवास्यमेवारम्भि निर्मितम् । चन्द्रस्तु पुनस्तस्य लावण्यस्याधारपात्रं स्पृशतीति स्पृक तेन लावण्यस्थापनपात्रमात्रलग्नेन, अत एव प्रोञ्छनेन पात्रनिघर्षणेन कृत्वा या लब्धतोपार्जितत्वं तेनार्धं कियत्खण्डं मलिनं यस्य तेन किंचिन्मलिनेन शेषेण भवन्मुखनिर्माणावशिष्टेर्नाशेन कृत्वारम्भि निर्मितः। अत एव शबलमण्डलोयं शोभत इत्यर्थः । शेषेण तु निर्मित इति वा । विधिना एतत्त्वन्मुखमृगाङ्कलक्षणं द्वयं निर्माय सृष्ट्राप्सु पाणी क्षालितौ खलु लावण्यलेपकृतजलक्षालनाविव । तस्मात्तस्य क्षालनरजोमिलितलावण्यलेपस्य लेशैरल्पैरंशैरेव कर्तृभिरधुनापि नीरनिलयैर्जलस्थायिभिः सद्भिरम्भोजमारभ्यते निर्मीयते । कमलनिर्माणे ब्रह्मणः कोपि प्रयासो नेत्यर्थः । कमलाच्चन्द्रोऽधिकः, तस्मादपि त्वन्मुखं लावण्यसाकल्येन निर्मितत्वाद्धिकमिति भावः । अम्भोजम्, जात्येकत्वम् ॥

लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा
 चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण यः।
तल्लेखापि शिखामणिः सुषमयाहंकृत्य शंभोरभू-
 दब्जं तस्य पदं यदस्पृशदतः पद्मं च सद्म श्रियाः ॥१४५॥