यितुं सुशकः सुखेन शक्यः । चन्द्रो धावल्याद्वृत्तत्वाच्च पीयूषपूर्णः सूर्यकान्तमणिक इव, कलङ्कश्च नीलमणिघटितं चषकमिव दृश्यते पश्येत्यर्थः । यथा मणिकस्थोदकाद्युद्धरणाय मणिकमुखे चषकः स्थाप्यते, तथा ताराभिः परस्परं मिलित्वा सुधापानं कर्तुं परिवेष्टितस्य सुधापूरितस्यास्यापि चन्द्रमणिकस्य मुखे सुधोद्धरणाय शशनामा नीलमणिचषको निक्षिप्त इत्युत्प्रेक्षितुं शक्यत इत्यर्थः । 'चपकोऽस्त्री पानपात्रम्' इत्यमरः । सपीतेः, 'वोपसर्जनस्य' इति वा 'सहस्य सः संज्ञायाम्' इत्यत्र 'सहस्य सः' इति योगविभागाद्वा सहस्य सः। कविभिः, खलर्थयोगान्न षष्ठी, सुशक इति खल् ॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं |
आस्यमिति ॥ हे सुन्दरि, विधिना शीतमयूखस्य मण्डलं बिम्बं तस्य वृत्तत्वाह्लादकत्वादिगुणानाकृष्य गृहीत्वा ते आस्यं यतो निर्मितं तेन गुणगणोत्कर्षण हेतुना शर्वर्याः परिवृढः प्रभुश्चन्द्रो दोषाणामाकर उत्पत्तिस्थानं, न तु दोषा रात्रिस्तत्कारित्वाद्दोषाकर इत्यर्थ इत्यहं शङ्के । तथा इन्दोर्मृगात्सकाशात्सारं दृशावादाय अतिश्रेष्टे नेत्रे गृहीत्वा इह भवन्मुखे निहिते इत्यहं जाने । कुतो ज्ञातमित्यत आह-सुन्दरतरे त्वद्वक्रे जागरूके सति अनन्धश्चक्षुष्मानुभयतारतम्यविचारचतुरोऽयं मृगो विधौ चन्द्रे धृतिं स्थितिम् , अथच-समीचीनाधारपरितोषं, कुतो वा दध्याद्धारयेत् , अपितु न कथंचित् , तस्मान्नेत्रोद्धरणादन्धत्वेनैव त्वन्मुखरामणीयकादर्शनादन्यत्र गन्तुमशक्तेश्च त्वन्मुखं त्यक्त्वात्रैवायं स्थित इत्यर्थः । त्वन्मुखं चन्द्रादधिकम् , नेत्रे च मृगनेत्रा. भ्यामधिके इति भावः। 'सारे' इति क्वचित्पाठः॥
शुचिरुचिमुडुगणमगणनमममति- |
शुचीति ॥ हे कृशतनु, त्वं गगनतट नभःस्थलमनु लक्षीकृत्य शुचिरुचिं श्वेतकान्तिं, तथा बहुत्वादगणनं संख्यातुमशक्यममुमङ्गुल्या निर्देश्यं प्रत्यक्षगम्यमुडुगणं प्रतिनिशं रात्रौ रात्रौ शशितलाच्चन्द्राधोभागाद्विगलता स्रवतामृतेन भृतं पूर्णं रविरथस्य हयचयस्तस्य खुराणां यानि बिलानि न्यासस्थानविवराणि तेषां कुलं वृन्दमिव नातिशयेन कलयसि, अपितु तदिवातितरां जानीहीत्यर्थः । प्रतिनिशं चन्द्राद्गलता धवलेनामृतेन पूर्णाः सूर्याश्वखुरगर्ता इव तारकाः शोभन्त इति भावः । गगनतटम् , कर्मप्रवचनीययोगाद्वितीया । प्रतिनिशम् , वीप्सायामव्ययीभावः । सर्वलघुः॥