पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४१
द्वाविंशः सर्गः


यति, तहाँस्याः सुधियाऽत्यादृताया मदुक्तेररसानां नीरसानां सर्वथैवासंस्पृष्टरसशब्दार्थानामपि चलदुपलप्रायाणामतृणादापुच्छपशूनामनादरभरैस्तत्कृतावज्ञासमूहैः किं नाम स्यात् , अपितु न किंचिदप्यस्यास्तैरपकर्तुं शक्यते । सुधीभिरादृते सति नीर, सैरकृते कृते वाष्यादरे न किंचिदित्यर्थः । सुधीभिराहतत्वात्सकलगुणपूर्णातिसरसेयं मदुक्तिरिति भावः । मदुक्तेः सुधारूपत्वाभावात्क्षोदानन्तरं च सरसत्वप्रतीतेः सुधात्वात्सुधीभूयेति च्विः । सुधिय इति जात्यभिप्रायेण । एकेनापि सुधियादरे कृते महद्गौरवम . बहुभिरष्यग्नादरेषु कृतेष्वपि न किंचिल्लाघवमित्यभिप्रायेण वा । यून इति प्रतियोगिन पकवचनान्तत्वाच्चैकवचनम् । कवेः स्वग्रन्थमुद्दिश्येयमुक्तिः॥

 कविरर्थान्तरोक्त्या स्वीयामुक्तिं वर्णयति-

दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं
 तुलयतु मिथस्तामापातस्फुरद्धनिडम्बराम् ।
स परमपरः क्षीरोदन्वान्यदीयमुदीयते
 मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् ॥२॥

 दिशीति ॥ गिरिमावाणोऽद्विपाषाणाः दिशि दिशि स्वां निजां सरस्वतीं नदीमन्तर्गंतजलप्रवणं वमन्तु मुञ्चन्तु । आपातः सामस्त्येन पतनं स्फुरन्प्रकाशमानो ध्वनिडम्यरः शब्दादम्बरो यस्यां तां च नदी मिथस्तुलयतु मिथोऽन्यनद्या समीकरोतु । अविमालपाटे आपानेन समन्तादृूर्ध्वप्रदेशाधःपतनेन प्रकाशमानः शब्दाडम्बरो यस्यां नामन्यनद्या समं समीकरोतु । जन इत्यर्थः। अथच-आपाते प्रथमारम्भ एव स्फुरत्प्रः पानवाया तां जनो मिथस्तुलयतु । उभयव्याख्यानेपि परिणामे तु न नदी न च तस्याशब्दापनि प्रत्ययः। स क्षीरोदन्वान् परं केवलं, अपरः न विद्यते पर उत्कृष्टो,यस्मादप्युत्कृष्टः अथच अन्य एव । यतो यस्य क्षीरोदस्येदं यदीयममृतमेतादृसमुदीयते उत्पद्यते । कीदृशम् मथितुर्देवादः खेदच्छेदि मथनजनितक्लेशापहम् । तथा प्रमोदने नितरामानन्ददायि । तथा--ओदनं भक्तमास्वाद्य सिद्धान्नरूपम् । अथच - भूत परमुत्कृष्टममृतं यदीयमुदीयते स क्षीरोदन्वानपरः परोऽन्यो नास्तिकियक एव। अथच प्रतिदिशं सर्वदेशेषु गिरि वाण्यां विषये पाषाणतुल्या जडा अन्ये कवयः स्वीयां वाणीमुद्गिरन्तु । आपातेन प्रतिभामात्रेण स्फुरन्ध्वन्याख्यकाव्यविशेषस्याटम्यगं यस्यां, प्रथमारम्भ एव स्फुरन् शब्दाडम्बरोऽनुप्रासो यत्र तां वा, पाणी मन्यान्यं जनः समीकरोतु तस्य कवेरुक्तिरस्येव, अस्य च तस्येव, इत्येवं तुलयतु । 'आपातः' इति विसर्जनीयान्तपाठे- आपातः प्रतिभासस्तां तुलयत्वित्यर्थः । एवंविधं परं काव्यामृतं यदीयमुत्पद्यते स क्षीरसमुद्र तुल्यः श्रीहर्षकविरपरो(ऽन्यो) नास्ति, किं त्येक एव । अन्ये कवयः पर्वतग्रावतुल्याः, अहं श्रीहर्षस्तु क्षीरसमुद्रतुल्य इत्यर्थः । यथा क्षीरसागरो नागधिनागि तीरमात्रस्थान्क्षीरेण तर्पयति । लक्ष्मीकौस्तुभामृतादिभिः परमानन्ददायिभिः कृतार्थयति, (तथा) मदीयकाव्यविचारकस्यैव खेदच्छेदि प्रमोदनं