पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४२
नैषधीयचरिते


वचनामृतमुत्पद्यते, नान्यकाव्यविचारकस्येति, अन्ये ग्रावतुल्याः, क्षीरोदतुल्यश्चाहमिति भावः॥

 इदानीं प्रसादरूपमुख्यगुणाभावादतिदुर्बाोधत्वादकाव्यमिति ये वदन्ति, तच्छङ्कामपनुदन् बलदर्पदलनार्थं गुरुसंप्रदायेन विना दुर्बोधमित्यतिगाम्भीर्यप्रतिपादनार्थं बुद्धिपूर्वमेव मयेदं काव्यं तत्र तत्र दुर्बोधं व्यरचीत्याह-

ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया
 प्राज्ञंमन्यमना हठेन पठिती मास्मिन्खलः खेलतु ।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्धिः समासादय-
 त्वेतकाव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥ ३ ॥

 ग्रन्थेति ॥ आत्मानं प्राज्ञं मन्यन्तं प्राशंमन्यं मनो यस्यैवंविधोऽस्मिन्काव्यं हठेन स्वीयप्रज्ञाबलेन पठितमस्यास्तीति पठिती इदंकाव्यस्य पाठकः खलो मा खेलतु किमत्रास्ति, अश्रुतमेव व्याकर्तुं शक्यते, इत्यवज्ञापूर्वां दर्पाभिव्यक्तिं मा कार्षीदित्येवमर्थमिह काव्ये क्वचित्क्वचिदपि तत्र तत्र स्थले मया प्रयत्नाद्बुद्धिपूर्वं ग्रन्थग्रन्थिर्ग्रंथ्यमानशब्दार्थकुटिलिका न्यासि विन्यस्ता खलमुखभङ्गार्थं बुद्धिपूर्वमेवेदं काव्यं मया दुर्बोधं व्यरचि नतु प्रसन्नकाव्यकरणाशक्त्येत्यर्थः । क्वचित्क्वचिदपीत्यनेन तत्र तत्र प्रसन्नताप्यस्तीति न काव्यत्वहानिरिति सूच्यते । सज्जनस्य तु ग्रन्थविवेचनीपायमाह-श्रद्धति । श्रद्धया गुरौ दैवतैकबुद्ध्या आराद्धेन पूजितेन गुरुणा पूर्वमश्लथा अपि श्लथाः कृता व्याख्यया सुबोधाः कृता दृढा स्वरूपतो दुर्बोधा ग्रन्थयो यस्मै स गुरुसंप्रदायावगतार्थः, अत एव दर्पराहित्यात्सज्जनः साधुरेतत्काव्यस्य रसोर्मिरमृतलहरी तस्यां मज्जनमवम्यानं समसादयतु प्राप्नोतु । गुरुपरम्परया विनैकस्यापि पद्यस्यार्थो बोद्धुं न शक्यते, तस्माद्गुरूपरम्पराया एवाध्येयमिदं काव्यमित्यर्थः । यश्चेदं गुरूपरम्पराया अधीने स सततं सुखी भवत्विति महाकविस्तस्मा आशिषं ददाति । अस्मिन्पठिती कस्येन्विषयस्य -' इति कर्मणि सप्तमी । आराद्धति राधेरनुदात्तत्त्वादिडभावः ॥

इदानीं पण्डितानन्द जननद्वारा स्वकृतेरभ्युदयमाशास्ते -

ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरा-
 द्यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम्
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केंषु यस्योक्तयः
 श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम॥४॥

 ताम्बूलेति ॥ यः कान्यकुब्जेश्वरात्सकाशात्सकलपण्डिताधिक्यव्यञ्जनं नाम्नसायं विद्वद्योग्यमासनं च लभते । न केवलं राजपूज्य एव, किंतु यः समाधिषु, अष्टाङ्गयोगेषु ध्यानेषु वा विषये प्रमोदार्णवं परमानन्दस्वरूपं परं वागाद्यगोचरं ब्रह्म साक्षात्कु-