पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
नैषधीयचरिते

यथा ग्रहणानां ज्ञानानां यथार्थता प्रामाण्यं स्वत एव । ज्ञानं स्वतः प्रमाणमिति मीमांसकाः। यद्वा गृह्यते ज्ञायतेऽर्थो यैस्तानि शब्दास्तेषां यथार्थतानुगतार्थता स्वत एव । वृक्षशब्दोच्चारणमात्रे मूलशाखापत्रादि प्रत्यक्षमिव स्फुरति यथा तथा सतो नाममात्रे गृहीते तेषां परोपकारित्वं स्फुरत्येव । 'एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये-' इत्यादि भर्तृहरिः । अन्यद्विस्तरभयान्न लिख्यते । प्रवर्तनेति ‘ण्यास-' इति युच् । न इति 'अस्मदो द्वयोश्च' इत्येकत्वेऽपि बहुवचनम् ॥

तव वर्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः ।
अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः॥६२॥

 तवेति ॥ वर्त्मनि मार्गे तव शिवं कल्याणं वर्ततां भवतु । कृतकार्यस्य तव त्वरितं शीघ्रं समागमो मया सह मेलनं पुनरस्तु भवतु । अयि हंस, ईप्सितं भैमीप्राप्तिलक्षणं मदभिलषितं साधयसाधय निष्पादय । स्वार्तिद्योतनार्थं वीप्सा । साधय गच्छ, अभिमतं साधय कुर्विति वा । हे वयः पक्षिन् , वयं समये सखीराहित्यसमये एकान्ते स्मर्तव्याः। तस्यामस्मदभिलाष उत्पादयितव्य इति केचित् । अथ च किंचित्प्रतिबन्धकाशङ्कासमये वयं वैन्यादयः कार्यसिद्ध्यर्थं स्मरणीयाः । 'अनुनये त्वयि' इत्यमरः । वयम् 'अस्मदो द्वयोश्च' इत्येकत्वे बहुवचनम् । पक्षे 'त्यदादीनां मिथः-' इत्यस्मदः शेषः ॥

इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशद्वनवेश्म विस्मितः स्मृतिलग्नैः कलहंसशंसितैः॥ ६३॥

 इतीति ॥ स नृपतिर्नलः इति पूर्वोक्तप्रकारेण तं हंसं विसृज्य प्रस्थाप्य वनवेश्म उद्यानगृहमविशत् । किंभूतः-धैर्यवान्धैर्ययुक्तः । यावद्धंसागमनं तत्रैव प्रतीक्षाकारित्वात् । तथा-सूनृतवाचि प्रिये सत्ये च वचसि बृहस्पतिरिव, न तूपचारवादी । तथा - रमणीयत्वात्स्मृतिगोचरं स्मरणविषयं लग्नैर्गतैः कलहंसशंसितैर्हंसभाषितैः कलैर्गम्भीरैः हंसभाषितैर्वा विस्मितः साश्चर्यः॥


अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः।
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥६४॥

अथेति ॥ अथानन्तरं सोऽण्डजो हंसः भीमसुता भैमी तस्या अवलोकनैर्दशनैः तदेवाहर्दिनं सफलं सार्थकं कर्तुं कुण्डिनं नाम नगरं ययौ जगाम । किंभूतम्-रमणीय-


 १ 'अत्र निदर्शनावाक्यदृष्टान्तालंकारः । यदुक्तम्-संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना' इति साहित्यविद्याधरी । 'उपमासंसृष्टोऽर्थान्तरन्यासः' इति जीवातुः। २ अत्राशीर्नामालंकारः । यथोक्तं दण्ड्यलंकारे-आशीर्नामालंकारेऽभिलषिते वस्तुत्वाशंसनम्' इति साहित्यविद्याधरी। ३ ‘इति सोऽपि विसृज्य तं खगम्' इति पाठस्तिलकसुखावबोधयोः संमतः। ४ 'श्रुतिलग्नैः' इति पाठो जीवातुसंमतः । ५ 'अत्र दीपकमतिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी ।