पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
द्वितीयः सर्गः

त्वाग्भैम्यधिष्ठितत्वाच्च क्षितिमण्डलस्य मण्डनायितमलंकारीभूतं मण्डनमिवाचरितम् । तदेवेत्यनेन क्षणमपि विलम्बो न कृतः। तेन परोपकारित्वं सूच्यते ॥ तद्गमने श्लोकत्रयेण शकुनान्याह-

प्रथमं पथि लोचनातिथिं पथिकमार्थितसिद्धिशंसिनम् ।
कलसं जलसंभृतं पुरः कलहंसः कलयांबभूव सः ॥ ६५ ॥

 प्रथममिति ॥ स कलहंसः प्रथमं पथि मार्गे लोचनातिथिं लोचनगोचरं जलसंभृतं जलपूर्णं कलसं घटं पुरोऽग्रे कलयांबभूव ज्ञातवान् । स्वानुकूलं शकुनमग्रहीदित्यर्थः । अतिथिशब्देनाकस्मिकोपस्थितिः सूच्यते । बुद्धिपूर्वकं शकुनं तथा न फलदं यथाकस्मिकम् । किंभूतं कलसम्-पथिकैः प्रार्थिता या सिद्धिस्तां शंसति । शंसिनं द्योतकम् । पथिकः 'पथः कन्'।


अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम् ॥ ६६ ॥

 अवलम्ब्येति ॥ स हंसः अवनीभृतो नलस्य विलासवने क्रीडावने रसाले आम्रे संगतं लग्नं फलमैक्षिष्ट ददर्श । फलमात्रदर्शनं कार्यसिद्धिसूचकम्, सुतरामाम्रफलदर्शनमिति भावः । किं कृत्वा-क्षणं मुहूर्तं दिदृक्षया मार्गावलोकनेच्छयाम्बर आकाशे रमणीयोद्यानदर्शनाश्चर्यरसेनालसं मन्दं गतं गमनमवलम्ब्याश्रित्य । इति पक्षिजातिः॥

नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपं नगम् ।
स ददर्श पतङ्गपुंगवो विटपच्छन्नतरक्षुपन्नगम् ॥ ६७ ॥

 नभस इति ॥ स पतङ्गपुंगवः पक्षिश्रेष्ठो नगं पर्वतं ददर्श । किंभूतम्-नभस आकाशस्य कलभैः करिशावकरूपैर्जलदैर्मेघैरुपासितम् । तथा-भूरितराः क्षुपा ह्रस्वशाखाशिफवृक्षा यस्मिन् । तथा-विटपैः शाखाभिः छन्नास्तिरोहितास्तरक्षवो मृगादनाः श्वापदविशेषाः पन्नगाः सर्पाश्च यत्र । कलभदर्शनस्य शकुनरूपत्वाज्जलदानां कलभत्वमुक्तम् । तरक्षुपन्नगदर्शनमशकुनमतस्तेषां छन्नत्वमुक्तम् । 'कलभः करिशावकः', ह्रस्वशाखाशिफः क्षुपः', 'तरक्षुस्तु मृगादनः' इत्यमरः । 'स्युरुत्तरपदे व्याघ्रपुंगव-' इत्यादिवचनात्पुंगवशब्दः प्रशंसावचनः । प्रशस्तः पतङ्गः। 'प्रशंसावचनैश्च' इति समासः। छन्नति 'वा दान्तशान्त-' इति साधुः । पन्नगेति 'सर्वत्रपन्नयोरुपसंख्यानम्' इति डः॥


 १ 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी । २ 'चकार' इति पाठः साहित्यविद्याधरीसंमतः। ३ 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी । ४ 'अत्रासंदष्टयमकं नामालंकारः । यथा ह रुद्रटः-'तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् । पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥' इति साहित्यविद्याधरी । ५ 'अत्रातिशयोक्त्यसंदष्टयमकमलंकारः' इति साहित्यविद्याधरी