पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
द्वितीयः सर्गः।

यावदन्तरिक्षे दिक्षु च दृष्टिर्दीयते तावदेवातिवेगेन दूरगामित्वान्नालोकीति भावः । यन् इतीणः शतरि रूपम् । तच्छायम् ‘विभाषा सेना-' इति नपुंसकत्वम् । दृक्पथः 'ऋक्-' इत्यादिना समासान्तः॥

न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरद्रुचारुतम् ।
न सगोत्रजमन्ववादि वा गतिवेगप्रसरद्रुचा रुतम् ॥ ७२ ॥

 न वनमिति ॥ अमुना हंसेन पथि मार्ग क्वचिदपि प्रदेशे वनं न शिश्रिये नाश्रितम् । किंभूतम्-उच्चतराणां द्रूणां द्रुमाणां चारुता यत्र । तथा-वाथवा सगोत्रजं स्वज्ञातिहंसजातं रुतं नान्ववादि नानूदितम् । सगोत्रैः सह संवादो न कृत इत्यर्थः । किंभूतेन-गतिवेगेन गमनवेगेन प्रसरन्ती रुग्रुचिर्यस्य । वनस्थितिः स्वयूथ्यसंभाषणं च पक्षिजातिः। विलम्बभयादुभयमपि तेन न कृतमिति गमने सादरत्वं सूचितम् । सगोत्रेति 'ज्योतिर्जनपद-' इति सः। रुगिति संपदादित्वाद्भावे क्विपू ॥


अथ भीमभुजेन पालिता नगरी मञ्जुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं हरशैलोपमसौधराजिता ॥ ७३ ॥

 अथेति ॥ अथ धराजिता राज्ञा भीमेन पालितासौ मञ्जः सुन्दरी कुण्डिनाख्या नगरी पतगस्य हंसस्य दृक्पथं दृष्टिगोचरं जगाम । किंभूतेन-भीमौ शत्रूणां भयजनकौ भुजौ यस्य । किंभूता-हरशैलः कैलासस्तदुपमैस्तत्सदृशैः सौधैः सुधाधवलितै राजगृहै राजिता शोभिता । कैलासोऽपि भीमभुजेन हरभुजेन पालितः। सौधराजिता, असौ धराजिता इति विरोधाभासः॥

दयितं प्रति यत्र संतता रतिहासा इव रेजिरे भुवः ।
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभितयः॥ ७४ ॥

 दयितमिति ॥ असौ का-यत्र नगर्यां गृहा भुवो नायिकातुल्याया रतिहासाः केलिहासा इव रेजिरे शुशुभिरे । किंभूता रतिहासाः-दयितं पृथ्वीपतिं भीमं प्रति संतता निरन्तराः, प्रवृत्ता वा । किंभूता गृहाः-स्फटिकोपलाः स्फटिकरत्नानि विग्रहः स्वरूपं येषाम् । स्फटिकरत्ननिर्मिता इत्यर्थः । तथा-शशभृच्चन्द्रस्तस्य भित्तं शकलं तद्वनिरङ्का निष्कलङ्का भित्तयो येषाम् । गृहाणां शुभ्रत्वाद्धासतुल्यत्वम् । रतिसमये


१ 'अत्र काव्यलिङ्गपुनरुक्तवदाभासावलंकारौ । यदुक्तं काव्यप्रकाशे--'पुनरुक्तवदाभासौ विच्छिन्नाकारशब्दगा। एकार्थतेव' इति साहित्यविद्याधरी। २ 'उच्चतरङ्गचारुतम्' इति पाठे--अमुना वनं पानीयं न भेजे । कीदृशम्-उच्चानामुन्नतानां तरङ्गाणां कल्लोलानां चारुता यत्रेति व्याख्येयम्' इति साहित्यविद्याधरी । ३ 'अत्र यमकमलंकारः' इति साहित्यविद्याधरी । ४ 'भीमनृपेण' इति पाठान्तरम् । 'भीमभुजेन' इत्यस्य 'भीमबाहुना' इत्यर्थकस्य 'धराजिता' इत्येतद् विशेषणमिति तिलकजीवातुसुखावबोधासाहित्यविद्याधरीसंमतम् । ५ 'अत्र समासोपमायमकालंकारौ' इति साहित्यविद्याधरी ।'अत्र यमकानुप्रासस्य हरशैलोपमेत्युपमायाश्च संसृष्टिः' इति जीवातुः। १२