पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
नैषधीयचरिते

कान्तं प्रति स्त्रीणां हासा भवन्ति अन्यदा न । 'गृहाः पुंसि च भूस्येव', 'भित्तं शकलखण्डे वा' इत्यमरः। संतताः 'समो वा-' इति पक्षे मलोपाभावः । 'भित्तं शकलम्' इति साधु ॥


नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन भास्वतः।
शरणार्थमुवास वासरेऽप्यसदावृत्युदयतमं तमः ॥ ७५ ॥

 नृपेति ॥ यत्र तमोऽन्धकारं नृपस्य राज्ञो नीलमणीनिर्मिता गृहास्तेषां त्विषस्तासामुपधेर्व्याजात् भास्वतः सूर्याद्भयेनेव हेतुना वासरे दिवसेऽपि शरणं गृहं रक्षितारं वा अर्थयते तादृशं सत् उवास वसतिस्म । इन्द्रनीलनिर्मितगृहदीप्तयो न भवन्ति, किं त्वन्धकारोऽयमिति भावः । शत्रोर्भीतोऽन्योऽपि रक्षितारमाश्रयते, तदाश्रयेणोदयं प्राप्नोति च । किंभूतं तमः-असती अविद्यमाना आवृत्तिार्व्याघुट्टनं यस्य तत् । अत एवातिशयेनोदयत्प्रसरत् उदयत्तमम् । ततः कर्मधारयो वा । अन्यत्र रात्रौ तमस्तिष्ठति दिवा व्यावर्तते, अत्र तु रात्रिंदिवम् । असती अविद्यमाना आवृत्तिः प्रतिबन्धकं सूर्यादि यस्य । अत एवोदयत्तममिति वा। सूर्यादेरिन्द्रनीलदीप्तिप्रतिबन्धकत्वाभावादतिनिविडमिति वा । 'उपधिर्व्याजचक्रयोः' इति विश्वः । मणी इति 'कृदिकारात्-' इति ङीष् । भास्वत इति 'भीत्रा-' इत्यपादानत्वम् । शरणार्थमिति 'चतुर्थी तदर्था-' इति समासः। पक्षे 'कर्मण्यण्॥


सितदीप्रमणिप्रकल्पिते यदगारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथि:७६

 सितेति ॥ यदगारे यस्या नगर्या अगारे गृहेषु । जातावेकवचनम् । निशि रात्रावेकिका एकाकिनी पूर्णिमा तिथिः निखिलान्प्रतिपदादीन्सकलांस्तिथीनतिथिर्याचको भूत्वा सन् उपतस्थे प्राप । आगन्तुकरूपेण संगत इत्यर्थः । किंभूते-सिताः स्फाटिका दीप्रा दीप्तिमन्तो ये मणयो रत्नानि तैः प्रकल्पिते निर्मिते । तथा-हसन्ती प्रकाशमाने अङ्करोदसी समीपद्यावापृथिव्यौ यस्य । यद्वा हसन्नङ्को मध्यो ययोरेवंविधे रोदसी द्यावाभूमी येन । सर्वास्वपि रात्रिषु सितमणिनिर्मितगृहप्रभापटलेन द्यावाभूम्योरन्तरालस्य प्रकाशमानत्वादन्धकाराभावात्पूर्णिमैव जातेति भ्रान्तिर्भवतीति भावः । 'तिथयो द्वयोः' इत्यमरः । दीप्रेति 'नमिकम्पि-' इति रः । उपतस्थे 'उपाद्देवपूजा-' इत्यादिना संगतकरणे तङ् । एकैव एकिका 'एकादाकिनिच्चा-' इति स्वार्थे कः॥


१ 'अत्रानुप्रासोत्प्रेक्षालुप्तोपमालंकाराः ।' इति साहित्यविद्याधरी । २ 'अत्रापह्नुतिविभावनोदात्तालंकारः । तत्रापह्नुतिविभावनयोः कारणभूता वासरे हि तमसो नाशे हेतुरिति कारणे सत्यपि कार्यानुत्पत्तिर्विभावना । इन्द्रनीलमणीनां गृहास्तत्र सन्तीत्युदात्तम् । यदुक्तं काव्यप्रकाशे-'उदात्तं वस्तुनः संपत्' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासोऽलंकारः। सर्वासु तिथिषु पूर्णिमासंबन्धप्रतिपादनादसंवन्धे

सबन्धरूपाऽतिशयोक्तिरपि । तथोदात्तमपि । तिथीनां गृहस्य व्यवहारसमारोपात्समासोक्तिरपि । अतिथिरूपत्वात्पूर्णिमाया रूपकमपि' इति साहित्यविद्याधरी।