पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
द्वितीयः सर्गः

सुदतीजनमज्जनार्पितैघुसृणैर्यत्र कषायित्ताशया।
न निशाखिलयापि वापिकां प्रससाद ग्रहिलेव मानिनी॥७७॥

 सुदतीति ॥ यत्र वापिका जलक्रीडादीर्घिकाखिलयापि सकलयापि निशा रात्र्या न प्रससाद न स्वच्छाभूत् । किंभूता-सुद्तीजनानां सुन्दरीसमूहानां मज्जनेन जलक्रीडया अर्पितैर्वितीर्णैर्युसृणैः कुङ्कुमाङ्गरागैः कपायितः कलुषित आशयो मध्यं यस्याः। केव-ग्रहिला आग्रहवती मानिनीव सुन्दरीव । अनेन कुङ्कुमाङ्गरागबाहुल्यं सूच्यते । मानिन्यपि सपत्नीजने प्रतिफलितं प्रियकुङ्कुमाङ्गरागं दृष्ट्वा प्रियेण नमस्कारादिना प्रसादितापि सकलयापि निशा रात्र्या न प्रसीदति । सापि घुसृणैः कलुषिता । तथा- अशया शयनं शयः स्वप्नः स न विद्यते यस्या इति वा। सुदतीजने मज्जनमासक्तिरिति वा । शोभना दन्ता यस्याः सा । 'अग्रान्तशुद्ध-' इति चकारस्यानुक्तसमुच्चयार्थ- त्वान्नित्यं स्त्रीसंज्ञत्वात् 'स्त्रियां संज्ञायाम्' इति वा दत्रादेशः । निशा 'पद्दन्नः-' इति निशाया निश् । 'यहोनुग्रहनिर्वन्धौ' इति विश्वः । ग्रहशब्दो निर्बन्धवाचकः। प्रकृते तु माननिर्बन्धः । तुन्दादेराकृतिगणत्वाश्रयणादिलच्[१]

क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया।
मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्य्मिज्य्ते॥७८॥

क्षणेति॥ यया नगर्या निशि मध्यरात्रे क्षणनीरवया क्षणमात्रं निःशब्दया मणिवेश्ममयं रत्नगृहरूपं निर्मलमुज्ज्वलमबाह्यं प्राकारमध्यस्थितं किमपि वक्तुमशक्यं ज्योतिस्तेज इज्यते स्म प्राप्यते स्म । किंभूतया-श्रित आश्रितो वप्रावलिरेव प्राकारपङ्किरेव योगपट्टो यया । (एतेन) मणिगृहबाहुल्यं सूचितम् । अन्ययापि योगिन्या क्षणमौनिन्या आश्रितयोगपट्टया च निर्मलमविद्यादिदोषरहितं किमपि वाड्मनसयोरविषयम् अवाह्यमाभ्यन्तरमात्मलक्षणं ज्योती रात्रौ पूज्यते। विषयीक्रियत इत्यर्थः । [२]यजेः प्राप्तिरप्यर्थः । क्षणेन परमात्मसाक्षात्काररूपेण यन्नीरं सात्त्विकभावजनितमश्रुजलं तद्वाति प्राप्नोति तादृश्या वा । आदन्तत्वात्कः । तदुक्तं गीतायाम्-'या निशा सर्वभूतानाम्-' इत्यादि[३]

विललास जलाशयोदरे कचन द्यौरनुबिम्बितेव या।
परिखाकपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥ ७९ ॥

 विललासेति ॥ या नगरी क्वचन कस्मिंश्चिज्जलाशयोदरे जलाधारमध्येऽनुविम्बिता प्रतिबिम्बिता द्यौरिव स्वर्ग इव विललास शुशुभे । मध्य एवं प्रतिबिम्बितेत्यत्र हेतु-


१ 'अत्रोपमोदात्तावलंकारौं' इति साहित्यविद्याधरी । २ 'ईक्ष्यते' इति सामराजदीक्षितमूलपुस्तकपाठः । जीवातावपि ईक्ष्यते सेव्यत इत्येव पाठो दृश्यते । ३ अत्र व्याप्तिरिति पाठे मानं तु अश्नोतिव्प्तिकर्मा यजिरप्यश्यर्थे वर्तते' इति षाष्टमहाभाष्यम् । ४ 'अत्रोदात्तमलंकारः' इति साहित्यविद्याधरी । 'अत्र प्रस्तुतनगरीविशेषणसाम्यादप्रस्तुतयोगिनीप्रतीतेः समासोक्तिः' इति जीवातु।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः