पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
द्वितीयः सर्गः

जन्म येषां तैरनलैंरग्निभिः परिवेषं वेष्टनमत्य प्राप्य रवः सूर्यस्योदयं लयमस्तं चान्तरा उदयमारभ्यास्तपर्यन्तं वाणपुरीव परार्ध्यतामग्रगण्यतां श्रेष्ठतामवहद्दधार । पुर्याः परार्ध्यतां वा । वाणपुर्यपि रुद्रप्रसादादनलावरुद्धेति प्रसिद्धिः। सूर्यकिरणसंवन्धात्सूर्यकान्तेभ्योऽग्निरुत्पद्यते । अनेकप्राकारेति भावः । उदयम् , लयम् 'अन्तरान्तरेण-'इति द्वितीया[१]

बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः ॥ ८८ ॥

 वह्विति ॥ यस्या आपणो हट्ट एवार्णवः पटु सातिशयं दध्वान गजितवान् । किंभूतः- बहवः कम्बवः शङ्खाः, मणयो मौक्तिकादयश्च यत्र । समुद्रोऽप्येवम् । तथा– वराटिकागणनायां कपर्दकगणनार्थमटन्तो भ्रमन्तः करा हस्ता एव कर्कटोत्कराः कुलीरसमूहा यत्र । समुद्रे भ्रमत्कुलीरास्तिष्टन्ति । तथा हिमवालुकया कर्पूरणाच्छवालुको निर्मलसिकतः । समुद्रे सिकतास्तिष्ठन्ति तत्स्थानेऽत्र कर्पूरः। सिकतासाम्येनात्र कर्पूरवाहुल्यम् । तत्र देशे वाहुल्येन कपर्दैरेव व्यवहारः। पटुशब्देन जनसंमर्दः सूच्य[२]ते ॥

यदगारघटाट्टकुट्टिमस्त्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ ८९ ॥

 यदिति ॥ अभ्रगङ्गया आकाशगङ्गया प्रतिचन्द्रोदयं चन्द्रोदयेचन्द्रोदये पतिव्रतौचिती पातिव्रत्यौचित्यं न मुमुचे न त्यक्तम् । किंभूतया-यदगारघटानां यस्या गृहसमूहानाभट्टा उपरिगृहास्तेषु कुट्टिमा बद्धभूमयस्तासु स्रवन्तो द्रवन्तो य इन्दूपलाश्चन्द्रकान्तास्तैस्तुन्दिला बहुतरा आपो जलानि यस्यास्तया । चन्द्रोदये समुद्रोदकवृद्धिर्भवति गङ्गा च तत्पत्नी चन्द्रकान्तगलदुदकसंपर्काद्वर्धत इति प्रातिव्रत्यौचित्यम् । 'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कशा' इत्यादि पतिव्रतालक्षणम् । अनेनाकाशगङ्गाया अपि कुट्टिमानामूर्ध्वभावत्वं सूच्यते । तुन्दिला मत्वर्थे 'तुन्दादिभ्यः-' इतीलच् । लक्षणया पुष्टत्वम् । तुन्दिलापया ऋगादिना समासान्तः। प्रतिर्वीप्सायाम्[३]

रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किलें[४]
अनुसायमभुर्विलेपनापणकश्मारजपण्यवाथयः ॥ ९० ॥

रुचय इति ॥ यत्र नगर्यामनुसायं प्रतिसंध्याकालं विलेपनापणे सुगन्धद्रव्यविक्रय-


१ 'अत्रान्यधर्मस्यान्येन संबन्धासंभवात्तादृशी परार्ध्यतामितिसादृश्याक्षेपानिदर्शनालंकारः' इति जीवातुः। 'उदात्तालंकारोऽपि' इति साहित्यविद्याधरी । २ 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी। ३ 'अत्रातिशयोक्तिकाव्यलिङ्गोदात्तसंसृष्टिः' इति साहित्यविद्याधरी । 'अत्राभ्रगङ्गाया यदगारेत्यादिना विशेषणार्थासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तथा च यदगाराणामतीन्दुमण्डलमौन्नत्यं गम्यते । तदुत्थापिता चेयमस्याः पातिव्रत्यधर्मापरित्यागोत्प्रेक्षेति संकरः । सा च व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः । ४ 'खलु' इति पाठस्तु जीवातुतिलकसुखावबोधासाहित्यविद्याधरीसंमतः ।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः