पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
नैषधीयचरिते

हट्टे काश्मीरजं तल्लक्षणं पण्यं विक्रेयं तस्य वीथयो मार्गा अस्तमितस्यास्तं गतस्य भास्वतो रवेः स्खलिताश्च्युता निरालया निराश्रया रुचय इवाभुर्भान्ति स्म । किल इवार्थे । भातेर्लङ् । अनुर्वीप्सायाम् । सायंकाले तासां रक्तत्वादित्यर्थः । पण्यम् 'अवद्यपण्य-' इति साधु । 'पङ्क्तिर्वीथी [१]पदव्यपि' ॥

विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥ ९१ ॥

 विततमिति ॥ यत्र नगर्या जनेन लोकेन वणिजा लाभजीविना आपणे हट्टे पणितुं विक्रेतुं विततं विस्तारितमखिलं जगतीवस्तु वीक्ष्यतेऽवलोक्यते । एकैकस्यापि वणिजो हट्टे सर्व वस्तु विद्यत इति भावः। केन कस्मिन्किमिव मृकण्डुसूनुना मार्कण्डेयेन मुनिना पुरा पूर्व हरेविष्णोरुदरे जगतीषु त्रैलोक्येषु जातं वस्त्विव । वीक्ष्यते स्मेत्यर्थः। पणितुम् । आ[२]र्धधातुके विकल्पादायाभावः। वीक्ष्यते भूते पुरायोगे 'पुरिलुङ् चास्मे' इति लट् । उकारान्तादेवापत्यार्थे शुभ्रादित्वाड्ढकि कित्त्वाद्वृद्धौ च 'ढे लोपोऽकद्र्वाः' इत्युकारलोपेच मार्कण्डेयः[३]

सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवैदपि गुञ्जन्तमलिं मलीमसम् ॥ ९२ ॥

 सममिति ॥ यस्या नगर्या आपणे पणिता विक्रेता मलीमसं श्यामं गुञ्जन्तमपि शब्दायमानमप्यलिं भ्रमरं जनारवैलोककोलाहलैर्न अवैन्नाज्ञासीत् । किं कुर्वन्–एणमदैः कस्तूरिकाभिः समं सह तुलयन् । किंभूतमलिम्-सौरभलोभेन सौरभ्याभिलाषेण निश्चलं कस्तूरिकाया उपरि स्थितम् । निश्चलत्वात्समानवर्णत्वाच्च कस्तूरिकायाः सकाशाद्भिन्नत्वेन यद्यपि ज्ञातुं न शक्यते तथापि गुञ्जनाज्ज्ञेयः । जनशब्देषु गुञ्जनस्यान्तहितत्वादिति भावः। अवैदितीणो लङि रूपम् । तुलयन् 'तुल उन्मितौ' इति ण्यन्ताच्छता संज्ञापूर्वकविधित्वाल्लघूपधगुणाभावः । मलीमसम् ‘ज्योत्स्नातमिस्रा-' इति साधुः[४]

रविकान्तमयेन सेतुना सकला[५]हं ज्वलनाहितोष्मणा ।
शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम ॥९३॥


१ 'अत्रोत्प्रेक्षालंकारः । विशेषालंकारोऽपि । यदुक्तं रुद्रटेन-'किंचिदवश्याधेयं यस्मिन्नभिधीयते निराधारम् । तादृगुपलभ्यमानं विज्ञेयोऽसौ विशेषोऽतः ॥' इति' इति साहित्यविद्याधरी। २ ‘पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः' इति तु जयादित्यादिसंमतम् । भट्टिस्तु व्यवहारेऽप्यायं प्रयुङ्क्ते- 'न चोपलेभे वणिजां पणायाम्' इति' मनोरमा। व्यवहारेऽप्यायप्रत्ययाङ्गीकारे एव 'अशिपणाय्योः-' इति शाकटायनसूत्र आयलुग्वचनसार्थक्यम् । ३ 'अत्रोपमोदात्तालंकारौं' इति साहित्यविद्याधरी । ४ 'अत्र निश्चलस्यालेर्गुञ्जनं कविना प्रौढिवादेनोक्तमित्यनुसंधेयम् । अत्रालेर्नैल्यादेणमदोक्तेः सामान्यालंकारः । 'सामान्य गुणसामान्ये यत्र वस्त्वन्तरकता' इति लक्षणात् । तेन भ्रान्तिमदलंकारो व्यज्यते' इति जीवातुः । ५ ‘सकलाहज्वलनाहितोष्मणेति समस्तं पदमिति तिलकजीवातुसंमतः । 'सकलाहर्ज्वल-' इति साहित्यविधाधरी । 'सकलाहज्वलन-' इति 'रोऽसुपि' इति र:- इति केचित्, तदुपेक्ष्यम्' इति सुखावबोधा


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः
  5. लघुः पाठ्यांशः