पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना।

चन्दः

(२) ख्रिष्टैकादशशताब्दीसंभूतवाचस्पतिमिश्रेण श्रीहर्षप्रणीतखण्डनखण्डखाद्यस्य खण्डनं कृतम् ।

(३) सायणमाधवः स्वप्रणीतशंकरविजयनामग्रन्थे श्रीहर्षे शंकराचार्यसमकाली- नमकथयत् ॥ इति । महाशयकाशीनाथतैलङ्गश्चान्त इत्यष्यकथयत्-'राजशेखरस्य कथनं विश्वासानहम् । तस्य बहुषु स्थानेषु स्फुटदोषग्रस्तत्वात्' इति ॥ किंच महाशयतैलङ्गप्रदर्शितदोषेभ्योऽतिरिक्तं दोषं महाशयो ग्रौस (F. S. Growse) पण्डितोपि चन्दकविप्रणीत'पृथिवीराजरासौ'नामकग्रन्थे केनचिल्लेखेन प्रादर्शयत् "चन्दो नाम कविः खिष्टद्वादशशताब्द्यन्तिमभागेऽभूत्; तद्यदि राजशेखरस्य वचनं तथ्यं स्यात्तर्हि श्रीहर्षस्य समकालीनतया बाढं परिचितः स्यात् । प्रत्युत चन्दः स्वपूर्वजानां वर्णने नलचरितप्रणेतारं श्रीहर्ष कालिदासात् पूर्व व्यवास्थापयत्" इति ॥ इण्डियनआण्टिक्वेरी (Ind. Ant.) नामपुस्तके बाबूरामदाससेनेने पूर्णेयेन च राजशे- खरानुकूलं मम मतमनुमोद्य दृढीकृतम् । महाशयग्रीसस्य च मन्मतप्रतिकूलदोषा युक्ति- भिरुपशमिताः । अतोहं ताभ्यामनुगृहीतोस्मि । परंतु हन्त तयोरपि युक्तयो न मे संमतं यथाव- ढयितुं शक्नुवन्ति ॥ अथ मम प्रतिकूलाः सर्वे आक्षेपाः समाधीयन्ते । (१) तत्र प्रथमं यदुक्तं "नैषधीयकाव्यस्य सरस्वतीकण्ठाभरणे श्लोका दृश्यन्ते' इति, तस्य समाधानम्- अयमाक्षेपस्तु डाक्टर हालसाहिबेनादौ प्रदर्शितः । परंतु मया सम्यगन्विष्य व्यवेचि "सरस्वतीकण्ठाभरणे नैकोपि नैषधीयचरितश्लोको दृश्यते” इति । गतवर्षे च मया सरस्वतीकण्ठाभरणस्यैकं पुस्तकं रत्नदर्पणनामिका तत्प्रथमपरिच्छेदत्रयटीका च वाराणसीतः समानायिते. अस्मिन्नेवान्तरे श्रीमता झळकिकरण वामनाचार्यशास्त्रिणा सर- खतीकण्ठाभरणे धृतानां श्लोकानामकारादिक्रमणानुक्रमणिका समग्रा निरमायि । अथ पुनस्तां नैषधीयपुस्तकस्य प्रतिश्लोकपादं संगमय्य "नैषधीयकाव्यश्लोकच्छायापि सरस्वतीकण्ठभरणे नास्ति' इति निरधारि । तस्यास्मिन् निश्चयेन कदाचिद्रान्तिः स्यादिति वक्तुमशक्यं महापरिश्रमेणेत्थंकरणात् ॥ किंच डाक्टर औफेट (Dr. Aufrecht) पण्डितेन स्वनिर्मितायां आक्स्फोर्ड(Oxford MSS.) हस्तलिखितपुस्तकानां सूच्यां सरस्वतीकण्ठाभरणे धृतानां श्लोकानां तत्कर्तृणां चानु- १ (Ind. Ant.) पुस्तके द्वितीयखण्डे २१३ पृष्ठे विलोकनीयम् ॥ २ बावूरामदाससेनव्याख्यानं (Ind. Ant.) पुस्तके तृतीयखण्डे ३१ पृष्ठे विलोक्यम् ॥ ३ पूर्णैय(P. N. Purnaiy। B. A.) स्य व्याख्यानं (Ind. Ant.) पुस्तकतृतीयखण्डे २९ पृष्ठे विलोक्यम् ॥