पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
नैषधीयचरिते

स्वस्य निष्यन्देन निर्झरोदकेन पूर्णैः । वृक्षाणामालवालपूरणप्रयासश्चन्द्रकान्तनिर्मितत्वात्तैरेव क्रियत इति भावः । निष्यन्देति 'अनुविपर्यभिनिभ्यः-' इति षत्वम्[१]

अथ कनकपतत्त्रस्तत्र तां राजपुत्रीं
 सदसि सदृशभासां विस्फुरन्ती सखीनाम् ।
उडुपरिषदि मध्यस्थायिशीतांशुलेखा-
 नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ १०७ ॥

अथेति ॥ अथानन्तरं कनकपतत्रः सुवर्णपक्षो हंसस्तत्र वने तां राजपुत्रीं भैमीमक्षि- लक्षीचकार नेत्रगोचरीचकार । किंभूताम्-सदृशभासां समानकान्तीनां सखीनां स- दसि सभायां विस्फुरन्ती विशेषेण दीप्यमानाम् । तथा-उडुपरिषदि नक्षत्रसभायां मध्यस्थायिनी शीतांशुलेखा चन्द्रलेखा तस्या अनुकरणेऽनुकारे पटुः समर्था लक्ष्मीः शोभा यस्यास्ताम् । सदृशदीप्तित्वेऽपि नक्षत्रापेक्षया चन्द्रलेखा यथाधिका तथा सख्यपेक्षया सेति । भैमीसखीनां तत्सादृश्यकथनमन्यसुन्दरीश्यो विशिष्टसौन्दर्यप्रतिपादनार्थम् । 'सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रङ्वा' इति राजशब्दात्परस्य दुहितृशब्दस्य पुत्रडादेशे टित्त्वान्ङीपि, राजजपुत्रीति । केचित्तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति । तेन पुरुहूतपुत्रीति सिद्धम् । विस्फुरन्तीम् 'स्फुरतिस्फुलत्योः-' इति वा षत्वम् । लक्ष्मीं समासान्तविधेरनित्यत्वात्कबभावः[२]

भ्रमणरयविकीर्णवर्णभासा खगेन
 कचन पतनयोग्यं देशमन्विष्यताधः।
मुखविधुमदसीयं सेवितुं लम्बमानः
 शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥ १०८ ॥

भ्रमणेति ॥ तेन खगेन हंसेनोर्ध्वमूर्ध्वप्रदेशे शशिपरिधिरिव चन्द्रपरिवेष इव मण्डलस्तेने । भ्रमणमकृतेत्यर्थः । अवतरतः पक्षिणो मण्डलगतिः क्रियास्वभावः। किंभूतेन- भ्रमणरयेण परिभ्रमणवेगेन विकीर्णा प्रसारिता स्वर्णभाः सुवर्णदीप्तिर्येन । तथा-क्वा चन अधः कस्मिन्नप्यधःप्रदेशे पतनयोग्यमवतरणयोग्यदेशं स्थानमन्विष्यता पर्यालो- चयता । किंभूतः शशिपरिधिः-अदसीयं अमुष्या भैम्या अयं तं मुखविधुं मुखचन्द्रं सेवितुं परिचुम्बितुं लम्बमानोऽधःप्रदेशमागतः । अदसीयम् । त्यदादित्वात् 'वृद्धाच्छः' । 'भस्याढे तद्धिते' इति पुंवद्भावः। 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः [३]

अनुभवति शचीत्थं सा घृताचीमुखाभि-
र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।


 १ 'अऋतिशयोक्त्युदात्तालंकारौ । इतश्चतुष्टये मालिनी वृत्तम्' इति साहित्यविद्याधरी । 'अबालवालानां चन्द्रकान्तनिष्यन्दासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः। २ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी । ३ 'अत्र रूपकोपमाजात्यलंकारसंसृष्टिः' इति साहित्यविद्याधरी । 'उत्प्रेक्षास्वभावोक्त्योः संकरः' इति जीवातुः

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः