पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीय चरितस्य क्रमणिका लिखिता, परंतु तत्र नैषधीयनामापि न दृश्यते । अतो डाक्टर हालपण्डितस्य कथनं भ्रान्तिग्रस्तं प्रतीयते । अथवा डाक्टर हालपण्डितेनावलोकितं सरस्वतीकण्ठाभर- णपुस्तकमशुद्धं स्यादिति ॥ अथ द्वितीयाक्षेपसमाधानम्- (२) यच्चोक्तम्-'निष्टैकादशशताब्द्यन्तिमभागाविर्भूतवाचस्पतिमिश्रेण श्रीहर्षप्रणीत- खण्डनखण्डखाद्यस्य खण्डनं कृतम् । अतः श्रीहर्षो वाचस्पतिमिश्रात् पूर्वोऽभूदिति सुस्पष्टम्' इति । तदेतत्तु सत्यं यत् वाचस्पतिमिश्रेण खण्डनोद्धारनामा ग्रन्थः कृतः । परंतु तत्र नायं निश्चयः यत् कतमोऽयं वाचस्पतिमिश्रः । यतो वाचस्पतिमिश्रा बहवोऽभूवन् । यैः खलु धर्मशास्त्राणि दर्शनग्रन्थाश्च निरमाविषत । किंचेन्द्रप्रस्थ (देहली)नगरनिवासिपण्डितविश्वेश्वरनवलगोस्वामिपार्श्वे खण्डनोद्धार- स्यैकं पुस्तकं वर्तते । अथ यदाहमिन्द्रप्रस्थनगरमगंमं तदा स प्रार्थितः कृपया तत् पुस्तकं माम- दर्शयत् । तत्रच न किमपि तत् प्रमाणमपश्यं यत् 'खलु वाचस्पतिमिश्रः ख्रिष्टैकादशश- ताब्द्यामभूत्' इति साधयेत् । खण्डनोद्धारग्रन्थश्च प्राचीनवेदान्तिकृतवेदान्तपुस्तकानां सूचीपत्रे नैव दृश्यते । वाराणसीमहाविद्यालयीयपण्डिता अपि मया खण्डनोद्धारसमयं निश्चेतुं पृष्टाः "अयं खण्डनोद्धारग्रन्थः केनचिन्नवीनवाचस्पतिमिश्रेण व्यरचि, नतु प्राचीनेन" इति मां प्रत्यवोचन् । अथ तृतीयाक्षेपसमाधानम्- " (३) यदप्युक्तं "पृथिवीराजरासौ नामक ग्रन्थे चन्दकविः श्रीहर्ष कालिदासात् पूर्वजातममन्यत' इति, । तत्रोच्यते चन्दकविः स्वग्रन्थे मङ्गलाचरणपञ्चमे श्लोके श्रीहर्ष- मुद्दिदेश । यंच श्रीमान् गौसो यथावदन्ववादीत् । किंच चन्दकविः मङ्गलाचरणश्लोकेषु 'सर्पराजं शेष, विष्णुं, व्यासं, शुकदेवं, नलराजयशःप्रख्यापकं श्रीहर्ष, भोजराजवृत्तान्तप्रणेतारं कालिदासं, दण्डमालिनं, गीतगोविन्दकर्तारं जयदेवं च एतान् प्राचीनप्रसिद्धकवीन् प्रणमामि' इत्यकथयत् । तत्र यत् श्रीमान् गौसः परामृशति-"चन्दकविनैते महाकवयो हि तत्तजन्मसमयमनुसृत्य मङ्गलाचरणश्लोकेषु पूर्वोत्तरतः सनामोद्देशं स्थापयित्वाऽभिवादिताः" इति । तत्तु "श्रीहर्षः १ तत्रापि चत्वारस्तु यूरोपमुद्रितग्रन्थग्रन्थकर्तृनामसंग्रह (Catalogus Catalogorum)पुस्तक एवोपलभ्यन्ते । मिश्रोपपदरहितास्त्वष्टौ ।। २ तत्त्वबिन्दु(वेदान्त)-तत्त्वशारदी(योग) तत्त्वसमीक्षा-ब्रह्म- सिद्धिटीका-न्यायकणिका(विधिविवेकटीका (मीमांसा)न्यायतत्त्वावलोक-न्यायरत्नटीका-न्यायवार्ति- कतात्पर्यटीका-ब्रह्मतत्त्वसंहितोद्दीपिनी-भामती(शारीरकभाष्यव्याख्या)—युक्तिदीपिका(सांख्य)-योगसूत्र- भाष्यव्याख्या-वेदान्ततत्त्वकौमुदी-वेदान्तवाचस्पत्य-सांख्यतत्त्वकौमुदी-निर्मात्रा ॥