पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
तृतीयः सर्गः।

वा । स्मरस्य सख्या मित्रेणानेन प्रत्यक्षदृश्येन वयसापि तारुण्येन तव शिशुत्वं बाल- त्वमज्ञत्वं च न खण्डितं नाशितम् । मम गगनगामित्वं स्वस्य च केवलमुर्वीगामित्वम- विचार्यैव मद्ग्रहणोद्योगं करोषीति भावः । प्रश्नकाकुर्वा । वयःसंधिरुक्तः । अथ च- स्मरस्य स्मरतुल्यस्य नलस्य मित्रेणानेन मल्लक्षणेन वयसाः पक्षिणा ते इदं शिशुत्वं बालत्वं न खण्डितम्, अपि तु खण्डितप्रायमेव । शीघ्रमेव नलप्राप्तेः करिष्यमाणत्वा- द्वालत्वं झटिति गमिष्यतीति भविष्यत्यपि भूतवदुप[१]चारः॥ मयि धृतेऽपि तव न किंचित्फलमित्याह- सहस्रपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः । अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥१६॥ सहस्रति ॥ हे भैमि, वयं सहस्रपत्रं कमलमासनं यस्य ब्रह्मणस्तस्य पत्राणि वाहनानि हंसास्तेषां वंशस्य कुलस्य पत्राणि पक्षभूताः सहायभूताः पतत्रिणः पक्षिणः स्मः भवामः । ततः किमत आह-अस्मेति । अस्मादृशां मादृशां चाटूनि प्रियवचनानि तेषु यो रसः शृङ्गारादिस्तल्लक्षणानि अमृतानि स्वर्लोके ये लोका जनास्तेभ्य इतरे ये पृथि- वीपाताललोकवासिनस्तैर्दुर्लभानि दुःप्रापाणि । अमृतानि भुवि जनानां दुष्प्रापाणि । मानुषी त्वं मदर्थं किमर्थ क्लिश्यसीति भावः । 'पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षि- णाम्' इति विश्वः । 'अस्मदो द्वयोश्च' इति स्वाभिप्रायं स्म इति बहुवचनम् । नलतडा- गस्थहंसाभिप्रायं वा । अस्मादृशाम् ‘आ सर्वनाम्नः' इत्यात्वम् । दुर्लभानि 'न सुदुर्भ्याम्’- इति नुमभावः[२]॥ ननु भवतां हंसत्वात्सुवर्णशरीरत्वं कथमित्यत आह- स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः । अन्नानुरूपां तनुरूपऋद्धिं कार्यं निदानाद्धि गुणानधीते ॥ १७॥ स्वर्गेति ॥ हे भैमि, वयं अन्नानुरूपां भक्षणीययोग्यां तनुरूपऋद्धिं कायकान्तिसमृद्धिं भजामः प्राप्नुमः । किंभूताः-स्वर्गापगा स्वर्गनदी तस्या हेममृणालिनीनां स्वर्णकमलि- नीनां या नाला मृणालानि च तेषामग्राणि क्रमेण कमलानि कोमलबिसावयवाश्च ना- लासंबन्धीनि मृणालानि वा भुञ्जत इति भुजेः क्विप् । हि प्रसिद्धं कार्य घटादि निदाना- (दा)दिकारणात् मृत्पिण्डादेः समवायिकारणाद्गुणान्कार्ष्ण्यादीनधीते लभते । का- रणगुणाः कार्ये गुणानारभन्ते इति नैयायिकाः प्रकृते सुवर्णमृणालभक्षणात्सुवर्णमयत्व- मस्माकमिति भावः । नालाशब्दः स्त्रीलि[३]ङ्गः। नलस्येमे नाला वयमिति वा भिन्नं



 १ 'अत्र विरोधविशेषोक्त्यलंकारौ' इति साहित्यविद्याधरी । 'अत्राधार्यत्वस्य वसुधागतिवियद्विहार- पदार्थहेतुकत्वादेकः काव्यलिङ्गभेदः । तथा शैशवाखण्डनस्य पूर्ववाक्यार्थहेतुकत्वादपरः; इति सजातीयसंकरः' इति जीवातुः । २ 'अत्र मनुष्यपदवाच्येऽर्थे स्वर्लोकलोकेतर इति वाक्यं प्रयुक्तमिति ओजो नाम गुणः । यदुक्तं वामनेन-'अर्थस्य प्रौढिरोजः' इति । छेकानुप्रासालंकारः' इति साहित्यविद्याधरी । ३ 'त्रिलिङ्गः' इति पाठस्तु 'नाला न ना पद्मदण्डे' इति मेदिनीविरोधात्प्रमादज इव भाति । .

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः