पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
तृतीयः सर्गः।


अलमिति ॥ धर्मविधौ संध्याकर्मकरणे सजन्सक्तः सन् विधाता ब्रह्मा मौनस्य मिषे- णालमत्यर्थ वाणीमावृणोति । बहिर्निर्गता पुरुषान्तरं भजेदिति शङ्कया मौनं करोति न तु धर्मार्थमिति भावः । यद्रुणद्धि तदलं वृथेति वा । वैयर्थ्यमेवाह–स ब्रह्मा तत्कण्ठं नलकण्ठमालिङ्ग्याश्लिष्य रसस्य शृङ्गारादिनवरसैस्तृप्तां संपूर्णां वक्रां वक्रोक्तिरूपां तां वाणीं न वेद न जानाति । यतो वेदजडः सदैव वेदपाठव्याकुलीभूतहृदयः। निरुद्धापि कदा निर्गत्य नलकण्ठमालिलिङ्गेति नाज्ञासीदिति भावः। अथ च वेदजडत्वात्तं विहा- यानुरागान्नलकण्ठमालिङ्ग्या शृङ्गारादिपूर्णामित्यर्थः । शृङ्गारादियुक्तां वक्रोक्तिं नल एव जानाति नान्य इत्यर्थः। अन्योऽपि छान्दसो विरक्तामनुरक्तां वा स्वस्त्रियं न जा- नाति । 'पूरणगुण-' इति सुहितार्थयोगे षष्ठीसमासनिषेधादेव रसस्येति तृप्त्यर्थकरणे [१]षष्ठी॥ श्रियस्तदालिङ्गनभूर्न भूता व्रतक्षतिः कापि पतिव्रतायाः। समस्तभूतात्मतया न भूतं तद्भर्तुरीर्ष्याकलुषाणुनापि ॥ ३१ ॥ श्रिय इति ॥ पतिव्रतायाः श्रियः (शोभायाः छलेन राज्यलक्ष्मीछलेन च) तदालि- ङ्गनं नलालिङ्गनं तस्माद् भवतीति भूः कापि व्रतक्षतिः पातिव्रत्यक्षतिः न भूता न जाता । तस्या लक्ष्म्या भर्तुविष्णोर्नलालिङ्गनेन लक्ष्मीविषये ईर्ष्याऽसहिष्णुत्वलक्षणा तया कलुषं कालुष्यं तस्याणुर्लेशस्तेनापि न भूतं न जातम् । पातिव्रत्यक्षत्यभावे, तद्भर्तु- रीर्ष्याकालुष्याभावे च हेतुमाह-समस्तभूतात्मतया समस्तानां भूतानामात्मा स्वरूपं विष्णुस्तस्य भावस्तत्ता तया । विष्णोः सकलभूतस्वरूपत्वेन नलोऽपि विष्णुरेवेति तदालिङ्गनेन पातिव्रत्यक्षतिः, विष्णोरीष्या च नाभूदित्यर्थः। सदा कान्तिसंपत्तियुक्त इति भावः । कलुषशब्दोऽत्र धर्ममात्रपरः । असूयानिमित्तपापलेशेनापि न भूतमिति वा। पत्यर्थभर्तृशब्दस्य याजकादित्वात्षष्ठीसमा<small[२]>सः॥ धिक् तं विधेः पाणिमजातलजं निर्माति यः पर्वणि पूर्णमिन्दुम् । मन्ये स विज्ञः स्मृततन्मुखश्रीः कृत्वार्धमौज्झ[३]द्धरमूर्ध्नि यस्तम्॥ ३२॥ धिगिति ॥ हे भैमि, स्मृता तस्य नलस्य मुखश्रीर्येन एवंभूतोऽपि यो विधेर्ब्रह्मणः पाणिर्हस्तः पर्वणि पूर्णिमायां पूर्ण परिपूर्णकलं सकलं चन्द्र निर्माति रचयति । अत एवाजातलज्जं निर्लजं विधेः पाणिं धिक् । तज्जैत्रे नलानने सत्यपि यः करस्तस्मादति- हीनं पूर्णचन्द्र निर्माति स निर्लज्जत्वान्निन्द्य एव । स विधेः पाणिर्विशः कुशलः। स का-यः स्मृतनलाननशोभः सन् कृतार्धं कृतैकदेशमपि तं चन्द्रं हरमूर्ध्नि शिवमस्तके औज्झत्तत्याजेत्यहं मन्ये । प्रारब्धमपि तदुत्तमस्यान्यस्य स्मरणाद्यस्त्यजति स विपश्चि-



 १ 'अत्र छेकानुप्रासोऽपह्नुतिः समासोक्तिश्च' इति साहित्यविद्याधरा 'अत्र प्रस्तुतवाग्देवीकथना- दप्रस्तुतवर्णात्मकवाणीवृत्तान्तप्रतीतेः प्रागुक्तरीत्या ध्वनिरेव-इत्यनुसंधेयम्' इति जीवातुः । २ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी। 'अत्र शच्यादिचित्तचाश्चल्योक्तेर्नलसौन्दर्थे तात्पर्यानानौ- चित्यदोषः' इति जीवातुः। ३ 'भवमूर्ध्नि' इति तिलकजीवातुसमंतपाठः । 'मृडमूर्ध्नि' इति सुखावबोधासाहित्यविद्याधरीसंमतपाठः ।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः