पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
नैषधीयचरिते


देवेति भावः । पूर्णकलमेककलं च चन्द्रं यद्यप्येक एव ब्रह्मणः पाणिर्निर्माति तथापि कार्यभेदान्मूर्खत्वं विज्ञत्वं कालभेदादुपचर्यते । चन्द्रादप्यतिरमणीयं तदाननमिति भावः[१]॥ निलीयते हीविधुरः स्वजैत्रं श्रुत्वा विधुस्तस्य मुखं मुखान्नः । सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भे ॥ ३३ ॥ निलीयत इति ॥ हे भैमि, विधुश्चन्द्रो नोऽस्साकं मुखात्तस्य मुखं स्वजैत्रं स्वस्य जेतु श्रुत्वा ह्रीविधुरो लजाविकलः सन्कदापि कदाप्यमावास्यायां सूरे सूर्ये, कदाप्य- स्तसमये समुद्रस्य पूरे प्रवाहे कदाचित्पावृट्रकाले अभ्र आकाशे भ्रमन्ति अभ्राणि मे- धास्तेषां गर्भे मध्ये निलीयतेऽन्तर्हितो भवति । अन्योऽपि स्वजेतारं श्रुत्वा लज्जाविक- लोऽलक्षितेषु स्थानेषु निलीयते । 'सूरसूर्यार्यमा,' 'द्योदिवौ द्वे स्त्रियामभ्रम्,' 'अभ्रं मेघः' इत्यमरः । जेनेव जैत्रम् । प्रज्ञाद्य[२]ण् ॥ संज्ञाप्य नः स्वध्वजभृत्यवर्गान्दैत्यारिरत्यन्जनलास्यनुत्यै । तत्संकुचन्नाभिसरोजपीताद्धातुर्विलज्जं रमते रमायाम् ॥ ३४ ॥ संज्ञाप्येति ॥ दैत्यारिविष्णुः स्वध्वजस्य गरुडस्य भृत्यवर्गान्नोऽस्मानत्यव्जं जितकमलं नलास्यं नलमुखं तस्य नुत्यै स्तुतये संज्ञाप्य संज्ञया आज्ञाप्य धातुब्रह्मणः सकाशाद्वि- लज्जं लजारहितं यथा तथा रमायां लक्ष्म्यां रमते क्रीडति । किंभूताद्धातुः तयास्म- स्कृतया नलानननुत्या संकुचन्मुकुलीभवन्नाभिसरोजं नाभिकमलं, तेन पीतादन्तर्हिता. दपश्यत इत्यर्थः । अव्जमतिकान्तम् । अयमेव मुकुलीभवने हेतुः। 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः। पश्यतो वृद्धस्य समक्षं स्त्रीक्रीडा लज्जावहाः[३]॥ रेखाभिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीभिरन्तः । चतुर्दशाष्टादश चात्र विद्या द्वेधापि सन्तीति शशंस वेधाः ॥३५॥ रेखाभिरिति ॥ वेधा अस्य नलस्यान्तरास्ये मुखमध्ये द्वात्रिंशता द्वात्रिंशत्संख्या- भिः दन्तमयीभिर्दन्तरूपाभी रेखाभिर्गणनात्संख्यानं कृत्वा (विधाय) इति शशंसेव क- थयति स्मेव । इतीति किम्-अत्र नलमुखमध्ये द्वेधा स्वतन्त्राभ्यां द्वाभ्यामपि प्रका- राभ्यां चतुर्दशाष्टादश च विद्याः सन्तीति । दन्तानां रेखात्वरूपणं सूक्ष्मत्वेन सामुद्रि- कलक्षणवत्त्वद्योतनार्थम् । दन्ता द्वात्रिंशद्विद्यन्त इति भावः। विद्यानां चतुर्दशत्वमष्टा- दशत्वं च प्रथमसर्गे उक्तम् । 'विंशत्याद्याः सदैकत्वे' इति द्वात्रिंशच्छब्दो बहुवचनान्त- विशेषणम् । गणनाल्यब्लोपे कर्मणि पञ्चमी । द्वेधा 'संख्याया विधार्थे धा' इति धाप्र- त्ययस्य 'एधाच्च' इत्येधाच्[४]



 १ 'अत्र प्रतीपप्रदीपालंकारौं' इति साहित्यविद्याधरी । २ 'अत्र समासोक्तिपर्यायौ' इति साहित्यविद्याधरी । 'अत्र विधोः स्वाभाविकसूर्यादिप्रवेशे पराजयप्रयुक्तहीनिलीनत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या- इति जीवातुः । ३ 'अत्र प्रतीपमलंकारः' इति साहित्यविद्याधरी। 'अत्र विष्णोरक्तव्यापारासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः' इति जीवातुः । ४ अत्र सापह्नवोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः