पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
तृतीयःसर्गः

तृतीयः सर्गः। श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः । वासेन तस्मिन्क्षमयोश्च सम्यग्बुद्धौ न दध्मः खलु शेषबुद्धौ ॥३७॥ श्रियाविति ॥हे भैमि, वयं तस्य नरेन्द्रस्य श्रियौ शोभासमृद्धी निरीक्ष्य दृष्ट्वा स्मरा- मरेन्द्रावपि कामेन्द्रावपि न स्मरामः अन्तःकरणगोचरौ न कुर्मः। मदने कान्तिरेव, इन्द्रे च समृद्धिरेव, नले च द्वे अपीत्याधिक्यम् । तस्मिन्नले क्षमयोः भूक्षान्त्योः सम्यग् वासेन वसत्या खलु निश्चयेन शेषबुद्धावनन्तसुगतावपि बुद्धौ चित्ते न दध्मः । मन- सापि न स्मरामेत्यर्थः । तयोरेकैकक्षमाधारत्वमस्य च द्वयोरप्याधारत्वम् , अतस्तयोः स्मरणं न । ताभ्यामयमधिक इति भावः । 'भूमिक्षान्त्योः क्षमा' इत्यमरः । कर्मणः शेष- त्वेनाविवक्षणात्मरामरेन्द्रावित्यत्र 'अधीगर्थ-' इति षष्ठ्यभावः[१]॥ विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः । मनोभिरासीदनणुप्रमाणैर्न लङ्घिता दिक्कतमा तदश्वैः ॥ ३७ ॥ विनेति ॥ तस्य नलस्य अश्वैः कतमा दिक् न लङ्घिता निर्जिता आसीत् , अपितु सर्वापि । किंभूतैः-पतत्रं पक्षं विना पक्षरहितैः विनतातनूजैर्गरुडैः। तथा ईक्षणलक्ष- णीयैर्नेत्रगोचरैः समीरणैर्वायुभिः । तथा-अनणुप्रमाणैर्महापरिमाणाधिकरणैर्मनोभिर- न्तःकरणैः । गरुडः सपक्षः, वायुरचाक्षुषः, मनोऽणुपरिमाणमिति प्रसिद्धिः । तद्विप- रीता अपि तदश्वा वेगेन गरुडादिरूपा जाता इति भावः । इवयोजना वा कर्तव्या । 'न निर्जिता' इति क्वचित्पाठः । अतिजवास्तश्वा इति भावः । कतमा, 'कतरकतमौ जा- तिपरिप्रश्ने' इति स्वार्थे डतमच्[२] ॥ सङ्ग्रामभूमीषु भवत्यरीणामस्त्रैर्नदामातृकता गतासु । तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ॥ ३८ ॥ संग्रामेति ॥ हे भैमि, राज्ञां व्रजाः समूहास्तेषामिमे राजव्रजीयास्तैरसुभिर्नरेन्द्रप्राण- रूपैर्वायुभिः कृत्वा तस्य बलस्य बाणधारा बाणपरम्परास्तल्लक्षणाः पवनाशनाः सर्पास्ते- षां सुभिक्ष भिक्षासमृद्धिर्भवति । नलबाणैः सर्वेऽपि शत्रवो हता इति भावः । कासु सतीषु-संग्रामभूमीष्वरीणां शत्रूणामस्रैरुधिरैर्नदीमातृकतां (गतासु) नदीजलपरि- पूर्णासु सतीषु । वैरिरुधिरनदीपरिपूर्णास्वित्यर्थः । दैर्ध्येणाशुगामित्वेन प्राणहरत्वेन बाणानां पवनाशनत्वम् । प्राणानां पवनत्वात्तैरेव तेषां सुभिक्षमिति भावः । नदीमातृ- कासु भूमिष्ववग्रहादिसद्भावेऽपि सुभिक्षं भवति । 'देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहि- पालितः। स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥' इत्यमरः । नदीमातृक इति 'नद्यृ-



 १. अत्र यथासंख्यमलंकारः' इति साहित्यविद्याधरी । 'अत्र द्वयोरपि श्रियोर्द्वयोरपि क्षमयोः प्रकृत- त्वात्केवलप्रकृतश्लेषः । एतेन सौन्दर्यादिगुणैः स्मरादिभ्योऽप्यधिक इति व्यज्यते । श्लेषयथासंख्ययोः संकरः' इति जीवातुः। २ 'अत्र विभावनालंकारः' इति साहित्यविद्याधरी। 'अत्राश्वानां विशिष्टवैनतेयादित्वेन निरूपणाद्रूपकालंकारः' इति जीवातुः।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः