पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
नैषधीयचरिते


तश्च' इति कप् । राजबजीय इति 'वृद्धाच्छः' । सुभिक्षम् । भिक्षाणां समृद्धिः 'अव्ययं विभक्ति-' इत्यव्ययीभा[१]वः॥ यशो यदस्याजनि संयुगेषु कण्डूलभावं भजता भुजेन । हेतोर्गुणादेव दिगापगालीकूलंकषावव्यसनं तदीयम् ॥ ३९ ॥ यश इति ॥ कण्डूलभावं रणकण्डूसहितत्वं भजता प्राप्नुवता भुजेन संयुगेषु यदस्य नलस्य यशोऽजनि संपादितं, (तत्) तदीयं यशःसंबन्धि दिश एवापगा नद्यस्तासु वा नद्यस्तासामाली स्तस्याः कूलं तीरं तत्कषत्वं कषणस्वभावस्तद्रूपं व्यसनं हेतोः का- रणस्य गुणादेव जातमिति शेषः । न तु स्वभावतः। यशःकारणे भुजे विद्यमानात्कण्डूल- क्षणात्कारणगुणादेव यशसि कूलंकषत्वरूपं व्यसनमागतमिति भावः। तस्य यशः सर्व- दिग्व्यापीत्यर्थः। कण्डूल इति 'सिध्मादिभ्यश्च' इत्यस्त्यर्थे लच् । कण्डूं लात्यादत्ते इति वा, 'आतोऽनुपसर्गे कः' । कूलंकष इति 'सर्वकूल-' इति खशि अजन्तत्वान्मु[२]म् ॥ इदानीं तस्य गुणानुवर्णनासक्तिं द्योतयन्नतिशयोक्तिमाह- यदि त्रिलोकी गणनापरा स्यातस्याः समाप्तिर्यदि नायुषः स्यात्। पारेपरार्धं गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात् ॥४०॥ यदीति ॥ त्रिलोकी त्रैलोक्यं यदि गणनापरा गुणगणनासक्ता स्यात्तस्यास्त्रिलोक्या- स्सद्गुणगणनार्थमायुषः समाप्तिर्यदि न स्याद्यदि गणितं गणितशास्त्रं पारेपरार्धं परार्धात्परं स्यात्तदा स नलः गणेया गणयितुं शक्या निःशेषाः समया गुणा यस्य एवंभूतोऽपि भवेत् । नतु एवम् । ततः सोऽप्यसंख्येयगुण इति भावः। त्रिलोकी समाहारद्विगौ 'द्विगोः' इति ङीप् । पारेपरार्धम् । 'पारेमध्ये षष्ट्या-' इति समासः। एदन्तत्वं च निपा-. तनात् । गणेय इति 'गणेरेयः' इत्यौणादिको गणेरेयः स्यात् । क्रियातिपत्तेरविवक्षितत्वा- ल्लिं[३]ङ् ॥ तस्यान्तःपुरे स्वगतिं द्योतयन्नाह- अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः। गतेषु रम्येष्वधिकं विशेषमध्यापयामः परमाणुमध्याः ॥ ४१ ॥ अवारीति ॥ हे भैमि, वयं परमाणुवन्मध्यो यासां ता अतिकृशोदरीः कर्मभूताः स्वत एव रम्येषु गतेषु विषयेऽधिकं लोकोत्तरं गमनविशेषमध्यापयामः पाठयामः । किं कृ- त्वा-तिरश्चां पक्ष्यादीनामवारितद्वारतयानिषिद्धद्वारत्वेन तस्य राज्ञोऽन्तःपुरे निविश्य प्रविश्य । इङ शब्दकर्मत्वात् ‘गतिबुद्धि-' इत्यण्यन्तकर्तुय॑न्तत्वे कर्मत्वम्[४]



 १ 'अत्र रूपकमलंकारः' इति जीवातुसाहित्यविद्याधर्यो । २ 'अत्र रूपकम्' इति साहित्यविद्याधरी: 'यशसो दिकूलकषणानुमितायाः कण्डूलतायास्तत्कारणकण्डूलभुजगुणपूर्वकत्वमुत्प्रेक्ष्यते' इति जीवातुः। ३ 'अत्र गुणानां गणेयत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः' इति जीवातुः। ४ 'अत्र लुप्तोपमालंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः