पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। स्वप्रणीतखण्डनखण्डखाद्यग्रन्थे कालिदासप्रणीतग्रन्थसंदर्भान् उदाजहार' इति श्रीहर्षसमय- विवेकानुसंधानशीलश्रीमत्काशीनाथतैलङ्गवचनादसंभवमिव प्रतिभाति । किंच ख्रिष्टद्वादशशताब्दीसंभूतचन्दकविः श्रीहर्ष प्राचीनकविमिवावर्णयिष्यत्तहिं रा- जशेखरस्य संमतमसंभवमभविष्यत् । अथास्मदनुकूलं राजशेखरस्य संमतं वक्ष्यमाणयुक्तिद्वय- मेकतरेण निश्चेतुं शक्यम् । तथाहि । (१) यत् श्रीमता प्रौसपण्डितेनोक्तं "चन्दप्रणीतपृथिवीराजरासौ-पुस्तके मङ्गला- चरणश्लोकेषु यः श्रीहर्षस्य प्रथममुद्देशः स 'श्रीहर्षः कालिदासात् पूर्वोऽभूत्' इति कवेराशयं व्यञ्जयति' इत्यसत्यं स्यात् । (२) अथवा चन्दनन्थे मङ्गलाचरणश्लोकाः क्षेपकाः स्युरिति । तत्राहं तु “चन्दकविना कवित्वशक्त्यनुसारेणैव कवीनां नामानि पूर्वोत्तरत उद्दिष्टानि नतु तज्जन्मसमयानुसारेण' इति मन्ये । अतो नात्राश्चर्यं यच्चन्दकविना श्रीहर्षस्य कालिदासात् प्रथममुद्देशः कृतः । यतः संप्रत्यपि बहवः पण्डिता नैषधकाव्यं सर्वेभ्यः काव्येभ्यः प्रायः श्रेष्ठ मन्यन्ते कालिदासकाव्येभ्यश्चापि श्रेष्ठं मत्था सबहुमानं पठन्ति प्रशंसन्ति च । किंच-अन्यका- व्यापेक्षयाऽस्य नैषधस्य बल्ह्यष्टीकाः सन्ति । किंच यच्चन्दकविना 'श्रीहर्षः प्रसिद्धः कविरभूत्' इति मङ्गलाचरणे उक्तम् , तत् श्रीहर्षस्य कालिदासात् पूर्वतां साधयितुं न शक्नोति । यतश्चन्दसमयात् किंचित् प्राङ् नवीनस्यापि श्रीहर्षस्य प्रसिद्धिसत्त्वेन चन्दकविना तथा प्रतिपादितत्वात् ॥ किंच प्रबन्धकोशादवगम्यते-यन्नैषधकाव्यं लिष्टस्य चतुःसप्तत्युत्तरैकादशशताब्द्याः ११७४ किंचित् प्राक् श्रीहर्षेण प्राणायि । यतो जयचन्द्रप्रधानस्य सोमनाथतीर्थया- त्रावृत्तान्तं श्रीहर्षस्य काश्मीरयात्रावृत्तस्य पश्चाद् राजशेखरः प्रबन्धकोषेऽवर्णयत् । श्रीहर्षस्तु नैषधकाव्यं रचयित्वैव काश्मीरं जगाम ॥ अपिच चन्दकविना पृथिवीराजरासौनामग्रन्थः प्रबन्धकोषाहुकालानन्तरं व्य- रचि । यतस्तत्र पृथुराजमृत्युः, तत्सुतरत्नसिंहस्य गौरिनामयवनाधिपतिना सह सांग्रामिक वृत्तं च वर्ण्यते स्म । किंच इदमष्यकथयित्वा वाचंयमेन भवितुमशक्यं मया । यत् "जोधपुराधीशप्रधानकवि- राजमुरारिदाननामाऽकथयत्-'तन्नाहमत्र श्रद्दधे । यत् 'पृथिवीराजरासौ'-पुस्तकं चन्दकविनैव प्रणीतम्' इति । किंत्विदं पुस्तकं ख्रिष्टचतुर्दशशताब्द्यां प्राणायीति मे प्रतिभाति । अत्र स इदं प्रमाणद्वयं चादर्शयत् । " १ (Ind. Ant.) तृतीयपुस्तके ८१ पृष्ठे विलोकनीयम् ॥ 3