पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
तृतीयः सर्गः।


नर्मसाचिव्यमपि कुर्म इत्याह- पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मजयामः । रम्भादिसौभाग्यरहाकथाभिः काव्येन काव्यं सृजताहताभिः॥४२॥ पीयूषेति ॥ वयं रम्भादीनामप्सरसां सौभाग्यं पुरुषवशीकरणादिशक्तिस्तस्य रहो रहस्यं तस्य कथाभिः संभोगगोष्ठीभिर्वस्त्वन्तरगोप्यकथाभिश्च तासां नलस्त्रीणाम- न्तर्हृदयं रसोदन्वति शृङ्गारसमुद्रे निमज्जयामो निमग्नीकुर्मः। किंभूताभिः-पीयूषधा- रा अमृतप्रवाहस्तस्याः सकाशादनधराभिरन्यूनाभिः । तथा-काव्यं प्रबन्धविशेष सृ-. जता कुर्वता काव्येन शुक्रेण आदृताभिः काव्ये प्रतिपादिताभिः । उदन्वति 'उदन्वा- नुदधौ च' इति साधुः । तत्र निमज्जनं युक्तम् । 'रहः सुरतगोप्ययोः' इति धरणिः[१] ॥ स्वस्य विश्वास्यत्वं वदन्नादेशार्हत्वमाह- काभिर्न तत्राभिनवस्मराज्ञाविश्वासनिक्षेपवणिक् क्रियेऽहम् । जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्वस्त्रपते न तेन ॥ ४३ ॥ काभिरिति ॥ तत्र नलान्तःपुरे काभिः सुन्दरीभिरहं पक्षी अभिनवातिगोप्या स्मराज्ञा' तस्या विश्वासेन निक्षेपवणिक्स्थापनिको वणिङ्न क्रिये, अपितु सर्वाभिरपि कृतः । कया स्वकामरहस्यं मयि न कथ्यत इत्यर्थः । तत्र हेतुः-यत् यतो हेतोस्तिर्यक्पक्ष्यादि कुतोऽपि कस्मादपि प्राणिनो नैव जिह्रेति लज्जते । तेन कारणेन कश्चित्कोऽपि प्राणी तिरश्चोऽपि सकाशान्न त्रपते लजते । अतस्ता निर्लज्जाः सत्यो मदोऽतिगोप्या अपि कामगोष्ठी: कुर्वन्तीति भावः । अन्यदपि गोप्यं विश्वासयोग्ये वणिजि निक्षिप्य[२]ते ॥ तासां परिहासोक्तमलीकमपि वचो नान्यस्मै कथयामीत्याह- वार्तापि नासत्यपि सान्यमेति योगादरन्ध्रे हृदि यां निरुन्धे । विरञ्चिनानाननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः ॥ ४४ ॥ वार्तेति ॥ असत्यप्यलीकापि सा परिहासवार्तापि परिहासकथा अन्यं नैति । अन्यस्मै न कथयामीत्यर्थः। सा का-अरन्ध्रेऽरिभेदरहिते हृदि योगादुपायेन । प्रयत्नादित्यर्थः । यां वार्तां निरुन्धे नितरामावृणोमि । ध्यानादिसंबन्धादोषरहिते हृदीति वा । सदोष- मेवान्तःकरणमन्यस्मा अन्यवार्तां कथयति, मदन्तःकरणं तु ध्यानादिना निर्दोषम्, अतो न कथयामीति भावः। वार्ताप्यन्यं नैति किमुतान्यत् , अलीकाप्यन्यं नैति किमुत सत्येति द्योतनार्थमपिशब्दौ । दुष्टप्रयुक्ता वार्ता जनहितार्थं कथनीयापि न कथ्यते । सरन्ध्रादेव बहिनिर्गमः संभाव्यते इदं त्वरन्ध्रम् । अथ च-असती कुलटापि कार्मणादियोगान्नी. रन्ध्रस्थाने निरुद्धाप्यन्यं पुरुषं नैतीत्युक्तिः। योगवत्त्वमेवाह-विरञ्चेब्रह्मणो नानाननानि चत्वारि मुखानि तत्कृतो वादो वचनं तेन धौतं पवित्रीकृतं समाधिशास्त्रं योगशास्त्रं



 १ 'अत्र छेकानुप्रासोपमालंकारः' इति साहित्यविद्याधरी। २ 'अत्र रूपककाव्यलिङ्गावलंकारौं' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः