पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। इतीति ॥ राजपुत्र्या भैम्या हृदयं नलेऽनुरागो विद्यते न वेति मनो बुभुत्सुर्जिज्ञासुः स पत्री हंस इति पूर्वोक्तमीरयित्वोक्त्वा विरराम तूष्णीमभूत् । ननु नलानुरागस्त्वयि विद्यते, त्वमपि नलेऽनुरक्ता भवेति प्रकटं किमिति नोक्तवानित्यत आह-हि यस्माद्गभीरे गाम्भीर्ययुक्ते ह्रदे जलाशये, गूढाभिप्राये हृदि चावगाढ आलोडिते, ज्ञाते च सति सन्तः पण्डिताः कार्यावतरं करणीयं तरणपथं, कार्यस्य प्रस्तावं च शंसन्ति कथयन्ति । गम्भीर ह्रदमनालोड्य अत्रोत्तरीतव्यमिति तरणमार्गं यथा न कोऽपि कथयति तथा आशयमविज्ञाय बुधस्तदग्रे कार्यविशेषप्रस्तावं न करोति । अतस्तदभिप्रायं ज्ञात्वा तस्यां नलानुरागप्रकाशनं कर्तव्यमिति नलानुरागमप्रकाश्यैव तूष्णींबभूवेत्यर्थः । राजपुत्रीति हृदयस्य गूढाशयत्वम् । विररामेति 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । हृदयम् 'न लोका-' इति षष्ठीनिषेधः॥ किंचित्तिरश्चीनविलोलमौलिर्विचिन्त्य वाचं मनसा मुहूर्तम् । पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः ॥ ५४॥ किंचिदिति ॥ सा पृथिवीन्द्रपुत्री भैमी मुहूर्तं क्षणमात्रं मनसान्तःकरणेन वाच्यं वक्तव्यं वचनं विचिन्त्य विचार्य पतत्रिणं हंसं जगाद । किंभूता-वचनविचारणे क्रियमाणे किंचिदीषपत्तिरश्चीनो वक्रः विलोलश्चञ्चलो मौलिमस्तकं यस्याः सा । तथा- सहजसौन्दर्येणाभिलाषसिद्ध्याशयातिप्रसन्नत्वेन च वक्त्रेण मुखेन तृणीकृतो न्यक्कृत इन्दुश्चन्द्रो यया । तिरश्चीनम् 'विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वार्थे खः । पुत्रीति शार्ङ्गरवादिपाठान्ङीन ॥ आत्मनोऽनुचितकारित्वमाह- धिक्चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या । समीरसङ्गादिव नीरभङ्ग्या मया तटस्थस्त्वमुपद्रुतोऽसि ॥ ५५॥ धिगिति ॥ हे हंस, चापले चञ्चलत्वविषये यद्वत्सिमवत्सलत्वं वत्सस्य बालस्य भावो वसिमा बालत्वं तेन यद्वत्सलत्वं सस्नेहत्वं बालत्वेन चापलविषये यत्प्रीतिमत्त्वं । चापलाङ्गीकरणमिति यावत्। तद्धि्ङ्निन्द्यमनुचितम् । यतः-यस्य चापलस्य प्रेरणानियोगाद्यदधीनतयोत्तरलीभवन्त्या अतिशयेन चञ्चलीभवन्त्या मया पश्वाल्लगित्वा तटस्थ उदासीनस्त्वमुपद्रुतः पीडितोऽसि । कयेव-समीरसङ्गाद्वायुसंबन्धाश्चञ्चलीभवन्त्या नीरभङ्ग्येव । तरङ्गरूपयोदकरचनया तटस्थः कूलस्थो यथोपद्रूयते । निरपराधस्त्वं पश्चालगित्वा मया पीडितः, अतोऽहमनुचितकारिण्येवेति भावः । वत्सशब्दात्पृथ्वादित्वादिमनिच् । तस्मादेव 'वत्सांसाभ्याम्-' इत्यभिलाषवति लच् । तथाच वत्सल इति स्नेहवानुच्यते॥ १ 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी । २ 'अत्रोपमा' इति साहित्यविद्याधरी । ३ 'अत्रोपमा' इति साहित्यविद्याधरी।