पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
नैषधीयचरिते

१२४ नैषधीयचरिते आत्मनिन्दापूर्वकं हंसस्तुतिमाह- आदर्शतां स्वच्छतया प्रयासि सतां स तावत्खलु दर्शनीयः । आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥५६॥ आदर्शेति ॥ हे हंस, दर्शनीयोऽतिरमणीयस्त्वं खलु निश्चयेन, उत्प्रेक्षे वा । स्वच्छतया निष्कपटतया कृत्वा सतां साधूनां तावत्प्रथममादर्शतां दृष्टान्ततां प्रयासि प्राप्नोषि। किंवत् । अयं निष्कपट इति प्रश्ने त्वमेव प्रथमं दृष्टान्तयोग्योसीत्यर्थः। अथ च निर्मलतया दर्पणतुल्योऽसि । दर्पणोऽपि सतामवलोकनीयः, श्रीकामैः प्रातरवलोक्यते च । निष्कपटतामादर्शतां च समर्थयते-पश्चाल्लगनात्सागसं सापराधां मां पुरस्कुर्वति 'मयासि तन्वि श्रमिता-' इत्यादिवचनान्मां प्रति प्रियभाषिणि यस्य तवात्मनि स्वरूपे इदमागः तटस्थपीडनलक्षणो ममापराधः प्रतिबिम्बितः 'सोऽहं तदागः' इति वचनात्त्वया मदपराधः स्वीयत्वेनैव स्वीकृत इति सतां स्वभावोऽयम् । अन्यापराधं स्वात्मन्यारोपयन्ति खलुः किमर्थे । आदर्शतां प्रयासि किम् । ततोऽप्यधिकः । आदर्श पुरो यथास्थितं वस्तु प्रतिफलति, त्वयि तु सापराधे वस्तुनि पुरः स्थितेऽप्यपराधलक्षणो धर्मः प्रतिविम्बितो, न तु सापराधो धर्मीत्यादर्शादधिकत्वादाश्चर्यरूपोऽसीति ॥ स्वापराधं निश्चित्य तत्क्षमा प्रार्थयते- अनार्यमप्याचरितं कुमार्या भवान्मयि क्षाम्यतु सौम्य तावत् । हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ५७ अनार्यमिति ! हे सौम्य सुन्दर, भवान्कुमार्या बालाया ममानार्यमनुचितमप्याचरितमाचरणं तावत्प्रथमं क्षाम्यतु. सहताम् । ईप्सितप्रश्नोत्तरं तु पश्चाद्वक्तव्यम् । अज्ञस्य ह्यपराधः क्षन्तव्य इति कुमारीपदम् । राजपुत्र्याः पक्षिणि मयि प्रार्थनमनुचितमित्यत आह-हंसोऽपि त्वं देवांशतया वन्द्योऽसि पूज्योऽसि । देवांशत्वं ब्रह्मवाहनत्वान्यथानुपपत्त्या । ततः प्रार्थ्यस इति भावः । क इव-श्रीवत्सो लक्ष्म चिह्न यस्य स मत्स्यमूर्तिमत्स्यस्वरूप इव । विष्णोः श्रीवत्सचिह्नाद्देवांशो मत्स्योऽपि पूज्यते तथा त्वम् । 'सौम्यं तु सुन्दरे' इत्यमरः । देवताधिकारे सोमायणो विधानात् सौम्य इति चिन्त्यम् । सोमस्य चन्द्रस्येयं सौमी सुधा तामर्हति दण्डादित्वाद्यप्रत्यये सौम्य देवतुल्य इत्यर्थ इति समर्थनीयम् ॥ दर्शनस्तुतिद्वारेण तवेप्सितं किं विद्ध इत्यस्योत्तरमाह- मत्मीतिमाधिससि कां वदीक्षामुदं मदक्षणोरपि यातिशेताम् । निजामृतैलॊचनसेचनाद्वा पृथक्किमिन्दुः सृजति प्रजानाम् ॥५॥ मदिति ॥ या मुद् हर्षः मदक्ष्णोर्मन्नेत्रयोः त्वदीक्षामुदं त्वदवलोकनजातमपि हर्षम-

१ 'अत्रार्थान्तरं श्लेषश्च' इति साहित्यविद्याधरी। २ 'अत्र काव्यलिङ्गमुपमा च' इति साहित्यविद्याधरी।