पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। तिशेतामतिकामतु तस्मादपि हर्षाधिका भवतु । त्वं तां कां मत्प्रीतिं मम मुदमाधित्ससि आधातुं कर्तुमिच्छसि । सा कापि नास्ति । एषैव ततोऽप्यधिकेति भावः। एतदेव दृष्टान्तेन द्रढयति-वा इवार्थः । यथा इन्दुर्निजामृतैः स्वीयपीयूषैः प्रजानां लोचनसेचनान्नेत्रसेकात्पृथगन्यदधिकं किमिव सृजति, अपि तु नेत्रसंतोषादन्यन्न किमपि, तथा त्वदर्शनादधिकं किमपि मदीप्सितं नेति भावः । अयमभिप्रायः-चन्द्रस्य लोकानां नेत्राह्लादकत्वमेव, न त्वजरामरत्वादिकरणसामर्थ्यम्, तथा त्वादृशानामपि दर्शनेन नेत्राह्लादकत्वमेव, न त्वधिकाभिलाषकरणसामर्थ्यमिति तस्याभिमानोत्पादनेन नलप्राप्तिपर्यवसायी मम संतोष इति सूचितम् । तस्माद्यथा मम नलप्राप्तिस्तथा यतस्वेत्यर्थः। सेचनात् 'पृथग्विना-' इति पञ्चमी ॥ ननु तव को मनोरथस्तं वदेत्यत आह- मनस्तु यं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः। का नाम बाला द्विजराजपाणिग्रहाभिलाषं कथयेदलज्जा ॥१९॥ मनस्त्विति ॥ हे हंस, स मनोरथः कण्ठपथं कण्ठमार्ग वचनगोचरं कथं केन प्रकारेण यातु, अपितु न केनापि । स कः-तु पुनर्यमभिलाषं मनोऽन्तःकरणं जातु कदाचिदपि नोज्झति न त्यजति । अन्तःकरणस्याधोदेशात्कण्ठस्य चोर्ध्वदेशादित्यर्थः । अथ रथोऽपि गर्तपातादिना ध्वस्तं पन्थानं नावतरति । सर्वत्रापि मनसो गतिसाधनत्वादभिलाषोऽपि मनसो रथः। अथ च यो वक्तुमपि न शक्यते स कर्तुं कथं शक्यत इति दुःसाधत्वम् । तदेवाह-नाम संभावनायाम् । अलज्जा निर्लज्जा साध्यमसाध्यमित्यजानाना सती का बाला द्विजराजस्य चन्द्रस्य पाणिना ग्रहाभिलाषं ग्रहणाभिलाषं कथयेत्, अपि तु हस्तेन चन्द्र ग्रहीतुं मम वाञ्छति कापि न कथयति । हस्तेन चन्द्रप्राप्तियथाशक्या तथा मन्मनोरथप्राप्तिरिति भावः। द्विज इति संबुद्धिः। राक्षश्चन्द्रस्येति वा । अथ च-स्वाभिलाषं कथयति-द्विजानां राजा सम्राट् नलस्तद्विवाहेच्छां का कथयेत्, अपि तु न कापि । नलविवाहेच्छा ममेति कथं कथयेयमिति भावः । अथ च सलज्जत्वाद्वक्तुं न शक्यत इत्याह हे द्विजराज, का स्त्री पाणिग्रहे विवाहेऽभिलाषमिच्छां निर्लज्जा सती प्रकटयेत् । अपि त्वेवं प्रौढैव कथयति न बालेयर्थः॥ वाचं तदीयां परिपीय मृद्वी मृद्वीकया तुल्यरसां स हंसः। तत्याज तोषं परपुष्टपुष्टे घृणां च वीणाक्वणिते वितेने ॥ ६० ॥ वाचमिति ॥ स हंसो मृद्धीकया द्राक्षया तुल्यो रसो मधुररसो यस्यास्तां मृद्वी कोमलां तदीयां भैमीसंबन्धिनीं वाचं परिपीयाकर्ण्य परपुष्टानां कोकिलानां घुष्टे कूजिते तोषं हर्षं तत्याज । तथा–वीणाक्वणिते वीणानिनादेऽपि घृणां जुगुप्सां वितेने चकार। पिककूजितवीणाक्वणिताभ्यामपि तद्वाक्कोमला सरला चेति भावः। 'मृद्वीका गोस्तनी १ 'अत्राक्षेपः' इति साहित्यविद्याधरी । 'दृष्टान्तालंकारः' इति जीवातुः। २ 'अत्रानुप्रासः श्लेषश्च' इति साहित्यविद्याधरी।