पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
नैषधीयचरिते

१२६ नैषधीयचरिते द्राक्षा' इत्यमरः । मृद्वीका 'वोतो गुणवचनात्' इति ङीषन्तात्संज्ञायां कनि 'केऽणः' इत्यस्य संज्ञापूर्वकविधित्वाद्ह्रस्वात्वाभावः। घुष्ट इत्यप्रज्ञानार्थत्वाद् ‘धुषिरविशब्दने' इति निष्ठाया इनिषेधः। घो(घु)षिमनिटं केचित्पठन्ति ॥ मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः। तच्छंसिते किंचन संशयालुर्गिरा मुखाम्भोजमयं युयोज ॥६१ ॥ मन्दाक्षमिति(क्षेति) ॥ अयं हंसः तच्छंसिते तस्या वचने अप्रकटस्वल्पोक्तत्वादेव किंचन संशयालुः संदिहानः सन्मुखाम्भोजं प्रशस्तं मुखं गिरा वाचा युयोज । वदति स्मेत्यर्थः । कस्यां सत्याम्-तस्यां भैम्यां मन्दाक्षेण लज्जया मन्दा स्वल्पाक्षरमुद्रा वर्णविन्यासो यस्यां क्रियायां तथा उक्त्वा समाकुञ्चिता वाग्यया तूष्णीभूतायां, सत्याम् । मुखाम्भोजम् 'प्रशंसावचनैश्च' इति समासः ।। करेण वाञ्छेव विधुं विधर्नु यमित्थमात्थादरिणी तमर्थम् । पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥६२ करेणेति ॥ हे भैमि, करेण विधुं चन्द्रं विधर्तुं ग्रहीतुं वाञ्छेव स्पृहेव नतु तात्त्विकी स्पृहा । इत्थमनेनैव गोप्याकारेण आदरिणी आदरयुक्ता, अदरिणी निर्भया अकम्पयुक्ता वा त्वं यमर्थं प्रयोजनमात्थ ब्रूषे अहं तमर्थं श्रुतिभ्यां कर्णाभ्यां पातुं सादरं श्रोतुमपि किं नाधिकुर्वे'नाधिकारीभवामि । कर्तुं यद्यपि न समर्थस्तथापि श्रोतुं शक्त एवेत्यापिशब्दार्थः । अथ च तमर्थं कर्तुमप्यधिकारीभवामि, किंपुनः श्रोतुमित्यपिशब्दार्थों वा । अन्तःकरणेन ज्ञात एव(मेव) श्रोतुमपि नाधिकुर्वे, अपितु अधिकुर्व एवेति वा । कः किमिव–अन्तिमो वर्णः शूद्रः श्रुतेवैदस्य वर्णमक्षरमिव । वेदाक्षरश्रवणे शूद्रस्याधिकारो नास्ति तथा मम नेति भावः । आत्थेति भूतेपि 'वर्तमानसामीप्ये-' इति वर्तमानवत्प्रत्ययः । अन्तिमः 'अन्ताच्च ' इति वक्तव्याड्डिमच् ॥ अवाप्यते वा किमियद्भवत्या चित्रैकपद्यामपि विद्यते यः। यत्रान्धकारः किल चेतसोऽपि जिह्येतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥ अवाप्यत इति ॥ हस्तेन चन्द्रधारणबहुष्पापत्वं यदुक्तं तन्न किंचिदित्याह-योऽर्थः चित्तैकपद्यामन्तःकरणलक्षणे क्रमगम्येऽतिसूक्ष्मे मार्गेऽपि विद्यते स भवत्यावाप्य- १ 'वचनग्रहणं रूढशब्दपरिग्रहार्थम् । ये तु यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये च गौण्या वृत्त्या प्रशंसां गमयन्ति 'सिंहो माणवकः' इत्यादयः, ते सर्वे व्युदस्यन्ते' इति मनोरमायामुक्तत्वेन चिन्त्योऽत्रानेन समासः । तस्मात् 'उपमितं व्याघ्रादिभिः-' इति समासो बोध्यः । २ 'अत्रानुप्राससमासोपमालंकारः' इति साहित्यविद्याधरी। ३ 'अत्रानुप्रासोपमे' इति साहित्यविद्याधरी। ४ 'अर्थाप्यते इति पाठमाश्रित्य हे भैमि, भवत्या किं वा इयदेतावद्यथा तथा अर्थाप्यते किमर्थमयमर्थो द्विजराजपाणिग्रहवदतिदुर्लभत्वेनाख्यायत इत्यर्थः । अर्थशब्दात् 'तदाचष्टे' इत्यर्थे णिच 'अर्थवेदसत्यानामापुग्वक्तव्यः '

इत्यापुगागमः' इति जीवातावभिहितं तिलकसंमतं च