पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
नैषधीयचरिते

१२८ नैषधीयचरिते मध्य इति ॥ हे भैमि, नोऽस्माकं मुखे वर्तमाना सरस्वती वाणी प्रतिवेशिनीनां नि- कटगृहवर्तिनीनां श्रुतीनां वेदानां मध्ये वासवती स्थितिमती यस्मात्तस्मात्ताभ्यः श्रुतिभ्यो ह्रियेव अद्धा निश्चयेन अपथादपथं कुमार्गं प्राप्य । ल्यब्लोपे पञ्चमी । न चलति न व्यभिचरति । यतः-सता सह सङ्गः स एव गुणस्तेन नद्धा संबद्धा । सत्सङ्गेन काचिद्यथा न व्यभिचरति । वेदसाहचर्यान्मद्वाण्यपि सत्यैवेत्यर्थः। 'सत्ये त्वद्धाञ्जसा द्वयम्' । अपथान्कुमार्गान्प्रति न चलति न गच्छति, किंतु समीचीनमार्गान्प्रत्येव गच्छतीति वा । 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति 'अपथं नपुंसकम्' इत्येतनाश्रीयते । अथवा पथिशब्दपर्यायः पथशब्दोऽक न्तिोऽप्यस्ति । अथवा 'अद्धापथात्' इत्येकमेव पदम् । अद्धापथात्सत्यमार्गान्न चहीत्यर्थः । अथ च-सशोभनः सङ्गः संधिर्यस्य तेन गुणेन दृढया रसनया बद्धा काचिद्यथा न चलति तथेयमपि । मद्वाण्याः श्रुतयः प्रतिवेशिन्यो भवन्ति । अत एव तत्सदृशमेव व्यवहरन्ति नान्यथा ॥ अथ त्वमभिप्रायं कथयेति प्ररोचनार्थं स्वसामर्थ्यं द्योतयति- पर्यङ्कतापन्नसरस्वदङ्कां लङ्कां पुरीमप्यभिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥ ६६ ॥ पर्यङ्केति ॥ हे भैमि, ते चित्तं मनो लङ्कां पुरीमप्यभिलाषि द्रष्टुं गन्तुं वा अभिलाषुकं सत् कुत्राप्यन्यत्र कस्मिंश्चिल्लङ्कायाः सकाशादतितरां दुष्प्रापे वस्तुनि विषये चेत्प्रयाति गच्छति त्वं तदपि तदुभयमपि स्वशये स्वहस्त एव शयालु विद्यमानमवेहि जानीहि । कुत्रापि वस्तुनि अभिलाषि तव चित्तं लङ्कायां विद्यमानवस्तुप्राप्त्यर्थं लङ्कामपि प्रयाति तदपीति वा योजना । दुष्प्रापवस्तुनः साधकोऽहमेवेति भावः । किंभूतां लङ्काम्-सरस्वतः समुद्रस्याङ्को मध्यः । परितः सर्वदिक्षु अङ्कतां चिह्नतां परिवेष्टनं वा आपन्नः प्राप्तः सरस्वदको यस्याः सा ताम् । पर्यङ्कतां मञ्चताम् । समुद्राङ्के सुखेन तिष्ठतीत्यर्थः । पर्यङ्कतां योगपट्टत्वं प्राप्तः समुद्रोऽङ्कश्चिद्रं यस्या इति वा । पर्यङ्कतां वृषीत्वं वा । समुद्रमध्ये तिष्ठतीत्यर्थ इति वा । सर्वथा लङ्काया दुष्प्रापत्वं सूचिततम् । या एवंविधा दुष्प्रापा तामपि हस्तगतामवेहि, किंपुनरन्याम् । कुत्रापि कोः पृथिव्याः त्राणं त्राः तामाप्नोतीति कुत्राप् । 'विप् च' इति विप्' तस्मिन्राजलक्षणे वस्तुनि वा। पर्यङ्क इति विकल्पत्वाल्लत्वाभावः । अपेः पदार्थे संभावनायां समुच्चये वा कर्मप्रवचनीयत्वालङ्कामिति द्वितीया। अभिलाषस्य(षिशब्दस्य) गम्यादिपाठाद्वा । तदिति सा च लङ्का च तच्च वस्तु तत् 'नपुंसकमनपुंसकेन-' इत्येकशेषः पाक्षिकमेकत्वं च ॥ इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी। चेतो नलङ्कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम्॥६७॥ इतीति ॥ तेन पत्ररथेन पक्षिणा इति पूर्वोक्तप्रकारेणेरितोक्ता हीणा निजाभिलाष- १ 'कृतसमासान्तपथरूपग्रहणात्पचाद्यंजन्तपथशब्देन समासे पुंस्त्वमेव' । तथा च त्रिकाण्डशेषः-'वाट: पथश्च मार्गश्च' इति मुकुटः। २ 'अत्र समासोक्त्युपमे' इति साहित्यविद्याधरी । ३ 'अत्र समा-

सोक्तिः' इति साहित्यविद्याधरी।