पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य (१) बहवः कवय उदाहरन्ति-'यच्चन्दो निजस्वामिना सह, स्वामिमृत्योः पश्चाद्वाचिरेणैव शत्रुभिरघानि' इति । (२) किंच तत्र पुस्तके यवनभाषाया बहवः शब्दाः सन्ति । यवनाश्चात्र भारते खिष्टस्य चतुर्नवत्युत्तरैकादशशताब्द्यां ११९४ समागत्य न्यवात्सुः । तत् कथं तेष्वागतेष्वेव तेषां भाषायाः प्रचारः स्यात् । मम मते तु चतुर्दशशताब्द्यां वर्षशतत्रयानन्तरं यवनभाषाया लब्धप्रचा- रतया चन्दपुस्तके प्रवेशः संभाव्यत एव" इति । तत्राहं तु कविराजमुरारीदाननाम्नोऽस्मिन् प्रमाणद्वयेऽन्तिमं कथंचिच्छूद्दधे ॥ अथ चतुर्थाक्षेपसमाधानम्- (४) यदप्युच्यते 'माधवप्रणीतसंक्षेपशंकरविजये वर्णितम् । यत् 'खण्डनकारः श्री- शंकराचार्याच्छास्त्रविचारे पराजेष्ट' इति । तत्रोच्यते----माधवप्रणीतश्रीसंक्षेपशंकरविजये सत्येतिहासा न दृश्यन्ते । किंतु तत्र शंकराचार्यस्य प्रशंसाथै स्वकल्पितेतिवृत्तमुपन्यस्तं मा- धवेन । तत्र दिङ्मात्रमुदाह्रियते-माधवेनोक्तं "शंकरः बाणं, मयूरं, खण्डनकतार श्रीहर्ष तत्याचीनमुदयनाचार्य च शास्त्रार्थे विजिग्ये" इति ॥ परंतु बाणमयूरौ च खिष्टसप्त- मशताब्द्यां प्रादुरास्ताम् । इत्थं चेतिहासविषयेषु संक्षेपशंकरविजयं किंचिदपि निश्चेतुं स- थाऽनहम् ॥ एवं च नाद्यापि किंचिदपि तत् प्रमाणमुपलभ्यते यद्राजशेखरस्य संमतं खण्डयेत् ॥ अपिच सरस्वतीकण्ठाभरणे श्रीहर्षश्लोका नैव धृताः सन्तीति यन्मया साधितं तन्मे मतं द्रढयतितराम् । सरस्वतीकण्ठाभरणं च बृहत्कायं पुस्तकमस्ति । तत्र च ये महाकवय आख्रिष्टैका- दशशताब्द्युत्तरार्धे बभूवुस्तेषां तत्प्रणीतकाव्यानां च नामानि दृश्यन्ते । सरस्वतीकण्ठाभरणं च धाराधिपतिभोजराजप्रणीतमिति निर्विवादं-समाप्तौ तन्नामोपलब्धेः । अथवा तत्र सभासद्भिः पण्डितैः प्रणीतं स्यादित्युभयस्मिन् संमत एकतरसंभवे तु संशय एव नास्ति ॥ किंच यत्-एतादृशमहाप्रसिद्धनैषधीयकाव्यस्य सरस्वतीकण्ठाभरणे नामापि न दृश्यते । तत् 'श्रीहर्षो भोजराजादाचीनः' इति साधयति ॥ अपिच यदि श्रीहर्षप्रणीता अन्ये ग्रन्था उपलभ्येरन् । तदा तैरपि श्रीहर्षाविर्भावसमयः सम्यङ् निश्चेतुं शक्येत ॥ अपिच-इतो नवतिर्वत्सरा अत्यगुर्यदा खलु जेसल्मीरभाण्डारे श्रीहर्षविरचितं साहसा- कुचरितं नामैकं पुस्तकमासीत् । परंतु संप्रति तत्र नोपलभ्यते । आशास्यते च तत् पुस्तकं कुत्रचिन्महानगरभाण्डार उप- लभ्येत । अथवा तदेव नष्टं जेसल्मीरभाण्डारपुस्तकं लभ्येत । इत्थं च संप्रति यावत् किमपि विश्वासार्ह पुस्तकान्तरं नोपलभ्यते तावत् राजशेखरस्य कथ- नम् 'श्रीहर्षः कान्यकुब्जाधिपतिजयचन्द्रस्य सभासन्महाकविरासीत्' इति सम्यक् प्रत्येमि ॥ किंच यत् श्रीहर्षोप्याह स्म -"मम नृपतिः कान्यकुब्जाधिपतिरासीतू" इति । तद्वचनं राजशेखरस्यैव संमतं भृशं साधयति ॥