पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। १२९ कथनप्रस्तावेन लज्जिता स्वाभिलाषस्य प्रापकोऽहमिति तेनोक्तत्वाद्धृष्टा आह्लायुक्ता। विस्मितेति यावत् । भैमी इति बभाणावोचत् । इति किम्-मदीयं चेतो लङ्कां न अयते प्राप्नोति । अभिलष्यतीत्यर्थः। अन्यत्र चान्यत्रापि कुत्रापि राजनि वा न च नैव साभिलाषम् । अथ च-नलं नलनामानं राजानं कामयते । तदतिरिक्तेऽन्यवस्तुनि नैव साभिलाषमिति श्लिष्टमवोचत् । 'तर(पत)त्पत्ररथाण्डजाः' इत्यमरः । ह्रीणा 'नुदविद्-' इति निष्ठानत्वम् । अप्राप्यवस्तुप्रापकोऽहमिति हंसोक्तिं श्रुत्वा हृष्टा सरोमाञ्चा। ततश्च हृषेर्लोमहर्षविषयत्वाद् 'हृषेर्लोमसु' इत्येवेड्विकल्पः। एवं सर्वत्र ज्ञेयम् । 'किति च' इत्यनेनेग्लक्षणयोरेव वृद्धिगुणयोः प्रतिषेधात्कामयत इत्यत्र त्वनिग्लक्षणत्वादप्रतिहतप्रसरा वृद्धिरिति ज्ञेयम् ॥ विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् । आचष्ट विस्पष्टमभाषमाणामेनां स चक्राङ्गपतङ्गशक्रः॥६८॥ विचिन्त्येति ॥ चक्राङ्गसंज्ञकानां पतङ्गानां पक्षिणां शक्रो राजा हंसो विस्पष्टं प्रकटमभाषमाणामेनां भैमीं जगादोक्तवान् । किं कृत्वा-बालाजनस्य शीलं स्वभाव एव दुर्लङ्घ्यत्वादतिगहनत्वाच्च शैलः पर्वतस्तं लज्जारूपायां नद्यां मज्जन्क्रीडन् अनङ्गः कामस्तल्लक्षणो नागो हस्ती यत्र एवंविधं विचिन्त्य विचार्य । कामपीडितोऽपि बालाजनो लज्जया काममाच्छाद्य स्वाभिलाषं न कथयतीति विचार्य विस्पष्टवादनार्थमेतामाह स्मेत्यर्थः । अथ च-पर्वतनद्यां हस्ती मजति इत्युक्तिः । 'चक्राङ्गा मानसौकसः' इत्यमरः॥ नृपेण पाणिग्रहणस्पृहेति नलं मनः कामयते ममेति । आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम्॥६९॥ नृपेणेति ॥ हे भैमि, श्लेषकवेः पूर्वं राजकर्तृके पाणिग्रहणे मम वाञ्छेति, अनन्तरं मम मनो नलमभिलष्यतीति च श्लिष्टकवित्वकारिण्या भवत्यास्तव क्रमेण 'का नाम बा- ला' 'चेतो नलं कामयते' इत्यादेः श्लोकद्वयस्यार्थोऽभिप्रायः सुधिया विदुषापि केनचिन्नाश्लेषि नाज्ञायि, मन्दप्रज्ञेन मया नाशायीति किं वाच्यम् । अथ च विदुषा श्लेषादिविवरणे पटुना मया नाज्ञायि किम्, अपितु ज्ञात एव । किमर्थं गोपायसीति भावः। 'स्वधिया' इति पाठे स्वीयबुद्ध्यैव न त्वन्यबुद्ध्या ॥ यदि ममाभिप्रायो ज्ञात एव तर्हि लज्जां त्याजयित्वा पुनःपुनः किमिति वादय- त्वचेतसः स्थैर्यविपर्ययं तु संभाव्य भाव्यस्मि तमज्ञ एव । लक्ष्ये हि बालाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् ॥७०॥ १ 'अत्र श्लेषः' इति साहित्यविद्याधरी । २ 'हंसाश्चक्राङ्गवक्राङ्गमानसौकसितच्छदाः इत्युक्तेः 'वक्राङ्ग' इत्यपि पाठः साधीयान्' इति सुखावबोधा । ३ 'अत्र छेकानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी।