पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। अथ संदिग्धे कार्ये त्वयापि नाहं नियोज्य इत्याह- वयापि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये निधातुम् । इतः पृथक्प्रार्थयसे तु यद्यत्कुर्वे तदुर्वीपतिपुत्रि सर्वम् ॥ ७३ ॥ त्वयेति ॥ त्वयापि शङ्कितविक्रिये संभावितवरान्तरवरणलक्षणविकारेऽस्मिन्विवाहलक्षणे विषये निधातुं योजयितुं किंवा किमित्यहमधिक्रिये अधिकारीक्रिये । अस्मिन्नधिकारे नाहं नियोज्य इत्यर्थः । हे उर्वीपतिपुत्रि, इतो विवाहलक्षणकार्यात्पृथगन्यद्यद्यत्प्रार्थयसे याचसे, अहं तत्सर्वमपि कुर्वे साधयेयम् । प्रार्थयसे इति, कुर्वे इति च वर्तमानसामीप्ये लट् ॥ श्रवःप्रविष्टा इव तद्विरस्ता विधूय वैमत्यधुतेन मूर्धा । जचे ह्रियोऽपि श्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥ ७४ ॥ श्रव इति ॥ धरित्रीपुरुहूतपुत्री पृथ्वीन्द्रपुत्री पुनरूचे । किं कृत्वा-श्रवः कर्णं प्रविष्टाः कर्णान्तर्गतास्ताः पूर्वोक्तास्तद्गिरो हंसवाणीः वैमत्यनासमत्या धुतेन काम्पतन मूना विधूयेव निरस्येव । किंभूता-ह्रियोऽपि लज्जया अपि श्लथीकृतः (अनुरोधः) अनुबन्धो ऽनुसंधानं यया । श्रव-प्रविष्टा इवेति केचित् । तदा प्रतिकूलत्वादश्रुता इति इवेत्युतम् । अन्येनापि कर्णप्रविष्टस्य कीटादेर्निराकरणार्थं शिरश्चालनं क्रियते । या लज्जा सर्वथा त्यक्तुं न शक्या सापि त्यक्तेत्यपिशब्दार्थः । वैमत्यम् । दृढादिपाठाद्भावे ष्यञ् । कर्मधारयाद्वा स्वार्थे ज्ञापकात् । ब्रूञो भित्त्वाद्वचेस्तङ् ॥ दृष्टान्तद्वयेन पितृकर्तृकनलान्यस्वकर्तृकपरिणयं निराकरोति श्लोकद्वयेन- मदन्यदानं प्रति कल्पना या वेदस्त्वदीये हृदि तावदेषा । निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्रेसरमस्य कुर्याः॥ ७५॥ मदन्यदानमिति॥मम अन्यस्मै नलव्यतिरिक्ताय वराय पितृकर्तृकं दानं प्रति उद्दिश्य 'पितुर्नियोगेन-' इत्यादिर्या कल्पना शङ्का तर्कः एषा तावत्कल्पना त्वदीये हृदि वेदः वेद इव प्रमाणभूता इति चेत्तर्हि त्वं निशोऽपि रात्रैरपि सोमाञ्चन्द्रादितरोऽन्यः कान्तः प्रियस्तस्य शङ्कां अस्य वेदस्याग्रेसरं पुरोवर्तिनमोकारं कुर्या अङ्गीकुरु । वेदस्याग्रेसर आदी ओंकारो भवति । रात्रेश्चन्द्रादन्यः कान्तो न, तथा नलातिरिक्तो ममेत्यर्थः । मत्कर्तृकं दानं वा । अग्रेसरम् 'पुरोग्रतोग्रेषु सर्तेः' इति टः 'अजाद्यदन्तम्' इति पूर्वनिपातमकृत्वा ग्रशब्दस्य परनिपातकरणं सप्तम्यैकवचनेन विगृह्य एदन्तत्वार्थम् । 'यूथं तदग्रसरम्-' इत्यादयः प्रयोगा अग्रतः सरति, अग्रेण वेति समर्थनीयाः॥ सरोजिनीमानसरागवृत्तेरनर्कसंपर्कमतर्कयित्वा । मदन्यपाणिग्रहशङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ ७६ ॥ १ 'अत्रानुप्रासो नियतादशावयवं यमकं वा' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी। ३ 'अत्र रूपकमतिशयोक्तिश्च' इति साहित्यविद्याधरी।