पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
नैषधीयचरिते

नैषधीयचरिते सरोजिनीति ॥ हे हंस, सरोजिन्याः कमलिन्या मानसरागोऽन्तःकरणानुरागः, तस्य वृत्तेः सद्भावस्य स्थितेः अनर्केण सूर्यादन्येन सह संपर्कं संबन्धमतर्कयित्वा अविचार्य तव इयं मम अन्येन नलव्यतिरिक्तेन पाणिग्रहः परिणयस्तच्छङ्किता तत्तव महीयोतीव महत्साहसिक्यं साहसिकत्वम् । अहो आश्चर्ये । सूर्यातिरिक्तः कान्तः कमलिन्याश्चेत्तर्हि नलातिरिक्तो ममेति भावः । सहसाविचार्यैव वर्तते साहसिकः 'ओजःसहोऽम्भसा वर्तते' इति ठक् । ततो ब्राह्मणादित्वात्ण्य ॥ पुनरपि द्वितीयं पक्षं निराकरोति- साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये । विनामुना स्वात्मनि तु प्रहर्तुम् मृषागिरं त्वां नृपतौ न कर्तुम् ॥७७॥ साध्विति ॥ हे हंस, एतत्त्वया साधु सम्यक्तर्कितमुदितम् । किल उपहासे । यत्स्वेनात्मनैव स्वेच्छया अनलं नलादन्यं संश्रयिष्ये । किल चेदित्यर्थे यद्यर्थे वा । नलादन्यं चेत्संश्रयिष्ये तर्हि तु पुनरमुना नलेन विना नलप्राप्त्यभावे स्वात्मनि स्वविषये स्वप्रहारं कर्तुमनलमग्निमेव.संश्रयिष्ये । न तु त्वां नृपतौ नले मृषागिरं मिथ्यावाणीकं कर्तुं नलादन्यं संश्रयिष्ये । त्वं चेन्नाङ्गीकरोषि तर्हह्य्गावात्मघातं करिष्यामीति तस्य पुरस्ताकथयेति भावः । स्वात्मनीति कर्माविवक्षया सप्तमी ॥ एतद्वचनं प्रतारणमात्रं नतु सत्यमित्यत आह- मद्विपलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः । अशक्यशङ्काव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ॥७८॥ मदिति ॥ हे हंस, यस्तर्कस्त्वां पुनर्मद्विप्रलभ्यं मया प्रतारणीयमाह स तर्कः तस्य प्रतारकस्य फलं प्रयोजनं तद्विषयिण्यां वाचि किं मूकः प्रतारणस्य फलं किमिति न वदति, न वदति चेन्नास्त्येव तत् । ततश्च अशक्या शङ्का येषामेवंविधा व्यभिचारहेतवोऽज्ञानादयो यस्याः [यस्या व्यभिचारकारणं शङ्कितुं न शक्यते] एवंविधा अव्यभिचारिणी वाक् यदि वेदा न वेदवत्प्रमाणभूता न भवेत्, तर्हि के तु पुनर्वेदाः सन्तु । अव्यभिचरितवाक्त्वमेव वेदत्वम् । एवंविधाया अपि वाचोऽप्रामाण्ये वेदस्याप्यप्रामाण्यं स्यादित्यर्थः । ततश्च पूर्वश्लोकोक्तं मद्वचः अन्यथाशङ्कां विहाय सत्यमेव ज्ञातव्यम् । विप्रलभ्यम् 'पोरदुपधात्' इति यत् । शक्य इति 'शकिसहोश्च' इति यत् ॥ पुनरपि पूर्वोक्तं 'पितुर्नियोगेन-' इत्यादि पक्षद्वयं युक्त्या निराकरोति- अनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम् । ईष्टे तनूजन्मतनोः स नूनं मत्प्राणनाथस्तु नलस्तथापि ॥ ७९ ॥ अनैषधायेति ॥ तातः पिता चेच्छरीरशेषां शरीरमात्रावशेषां मामनैषधाय नलव्य- १ 'अत्र समासोक्तिरतिशयोक्तिश्च' इति साहित्यविद्याधरी। २ 'अत्र श्लेषः' इति साहित्यविद्याधरी।

३ 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।