पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
नैषधीयचरिते

नैषधीयचरिते श्रुतः स दृष्टश्च हरित्सु मोहाद्ध्यातः स से नीरन्ध्रितबुद्धिधारम् । ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते इयमेकशेषः॥७२॥ श्रुत इति ॥ सोऽनिर्वचनीयस्वरूपो नलो मया दूतद्विजादिमुखाच्छ्रुतः। तथा- हरित्सु सर्वासु दिक्षु मोहादुन्मादवशादृष्टश्च । सर्वं जगत्तन्मयमेव दृष्टमिति यावत् । तथा-नीरन्ध्रिता विजातीयज्ञानेनाव्यवहिता निरन्तरा बुद्धिधारा बुद्धिप्रवाहो यस्यां क्रियायां तथा ध्यातो ध्यानेन गोचरीकृतश्च । एवं चक्षुरागादयो नवावस्था यथायथं मयानुभूताः इदानीं मम तत्प्राप्तिर्नलप्राप्तिः, असुव्ययो दशमावस्थारूपः प्राणनाशो वा । वाशब्दश्चार्थे वा । एतद्वयं तव हस्ते आस्ते । त्वदधीनमेव विद्यत इत्यर्थः । परंतु एकस्य शेषः, एकश्चासौ शेषश्चेति वा । एकशेषरूपेण द्वयं तिष्ठतीत्यर्थः । यदा नलप्राप्तिस्तदा नासुव्ययः, यदा नासुव्ययस्तदा तत्प्राप्तिर्न । त्वत्सकाशान्नलं वा मृत्युं वा प्राप्स्यामीति भावः । एकतरस्य निश्चयाभावाद्द्वयमित्युक्तम् । एकशेषः सरूपाणां भवति, न तु विरूपाणाम् । अत्र तु विरूपयोरप्येकशेष इति चित्रम् । अथ च- 'श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः।मत्या च सततं ध्येयमे (ए)ते दर्शनहेतवः॥' इति वचनाच्छ्रवणादिना पूर्वं विषयीकृतस्य 'तत्त्वमसि' इति श्रुतिवाक्य तच्छब्दवाच्यस्य ब्रह्मणः प्राप्तिः कस्यचिदेव सुकृतिनो भवति, तथा मम नलप्राप्तिस्त्वत्प्रसादादेवेत्यर्थः । ब्रह्माप्यद्वयम् । अथ च-एवंविधो य एकस्यैव शुद्धस्यैव ब्रह्मणः शेषोऽवस्थानं तल्लक्षणमद्वयं चेत्युक्तिः । अत्र वाशब्दश्चार्थः । द्वयमेवेति पाठो वा । ध्यातः 'न ध्याख्या-' इति नत्वनिषेधः। नीरन्ध्रा कृता नीरन्ध्रिता इति ण्यन्तान्निष्ठा ॥ मम कार्यसाधने तव महांल्लाभ इत्याह- संचीयतामाश्रुतपालनोत्थं मन्माणवित्राणनजं च पुण्यम् । निवार्यतामार्य वृथा विशङ्का भद्रेऽपि मुद्रेयमये भृशं का ॥७३॥ संचीयतामिति ॥ 'तदप्यवेहि स्वशये शयालु-' इति आश्रुतस्य प्रतिज्ञातस्य पालनं तस्मादुत्थं जनितं पुण्यम् । तथा-मम प्राणानां मह्यमेव विश्राणनं दानं तज्जनितं च पुण्यं त्वया संचीयतां परिपुष्टीक्रियताम् । प्रतिश्रुतकरणेन महान्धर्मः, तेन च मत्प्राणरक्षणाद्धर्मो भविष्यतीत्यर्थः । प्रतिश्रुतादाने चाधर्मः, मत्प्राणहानिश्चेति स्त्रीहत्यालक्षणश्चाधर्मः । एतद्वयं यथा न भवति तथा कर्तव्यमिति भावः । निश्चयाभावे कथं कार्यमित्यत आह-आर्य श्रेष्ठ, वृथा निष्कारणिका 'पितुर्नियोगेन-' इत्यादिविशङ्का विरुद्धा संभावना निवार्यतां दूरतस्त्यज्यताम् । अये हंस, भद्रेऽप्यसंदिग्धेऽपि पदार्थे विषये भृशमतिशयेन केयं मुद्रा मूकीभावः किमिति नाङ्गीक्रियत इत्यर्थः । भद्रे शुभरूपे श्रेष्टे साधौ त्वयि इयं का मुद्रा स्थितिरिति वा ।। १-२ 'च' इति जीवातुसंमतः पाठः । ३ 'अत्र समुच्चयः' इति साहित्यविद्याधरी। 'अत्र तत्पदार्थश्रवणमनननिदिध्यासनसंपन्नस्य ब्रह्मप्राप्तिदुःखोच्छेदलक्षणमोक्षो गुर्वायत्त एवेत्यर्थान्तरप्रतीतिर्ध्वनिरेव ।

अभिधायाः प्रकृतार्थनियन्त्रणादिति संक्षेपः' इति जीवातुः। ४ 'अत्र छेकानुप्रासःः' इति साहित्यविद्याधरी।