पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
नैषधीयचरिते

नैषधीयचरिते त्वया मत्कार्ये कृते प्रत्युपकर्तुमशक्यत्वेनाहमधमर्णा यथा स्यां तथा कुर्वित्याह- दत्त्वात्मजीवं त्वयि जीवदेऽपि शुध्यामि जीवाधिकदे तु केन । विधेहि तन्मां त्वदृणाम्यशोद्धुममुद्रदारिद्र्यसमुद्रमग्नाम् ॥६॥ दत्त्वेति ॥ हे हंस, जीवदे प्राणदे त्वयि आत्मनो जीवं दत्त्वापि शुध्याम्यनृणीभवामि । जीवाधिकं नलं दाति तस्मिंस्त्वयि केन तु पुनः प्रकारेण शुध्यामि । केवलजीवदत्वे तु जीवदानेनानृणीभवनं युक्तम् , जीवाधिकदत्वे तु जीवे दत्तेऽप्यनृणीभवितुं न शक्यते । जीवाधिकमन्यत्किमपि न विद्यत इति भावः । यतः तस्मात्त्वदृणान्यशोद्धमनपाकर्तुं माममुद्रो निर्मर्यादो दारिद्र्यसमुद्रः, तत्र मग्नामतिदरिद्रां विधेहि । तवाधमर्णा यथा स्यां तथा कुर्विति भावः । जीवाधिकदो भवेति भावः । ऋणशब्दस्त्वत्रोपकारपरः। अशोधनं प्रत्युपकाराकरणम् । अत्र भैमीजीव एव जीवशब्देन गृह्यते । प्राणेभ्योऽप्यधिकं नलं ददातीति जीवाधिकदः एवंविधेऽत एव जीवदे नलदान एव मम प्राणनं यतः। एवंविधे त्वय्यात्मनः प्राणान्दत्वापि आत्मजीवव्ययसाध्यमुपकारं कृत्वापि केन पुनः प्रकारेणानृणीभवामि, अपितु प्राणव्ययसाध्य उपकारे कृतेऽपि ममानृणत्वं यतो न भवेदिति वा योजनां॥ अस्मिन्कार्ये कृते फलसद्भावेन त्वयैतत्करणीयमित्याह- क्रीणीष्व मज्जीवितमेव पण्यमन्यन्न चेदस्ति तदस्तु पुण्यम् । जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्प्रभवामि गातुम् ॥७॥  क्रीणीष्वेति ॥ हे हंस, मजीवितं जीवमेव पण्यं विक्रेयं वस्तु क्रीणीष्व । प्रियदानमूल्येनेति शेषः । मह्यमेव तत्क्रयेण प्रयच्छ । ननु तुभ्यं क्रयेण जीवदाने मम को लाभ इत्याशङ्क्याह-अन्यद्धनादिकं चेद्यद्यपि नास्ति तत्तथापि पुण्यमस्तु भवतु । जीवितदाने च जीवाधिकदाने च जीवाधिकदानेन विना मूल्यं यद्यपि न विद्यते तथापि तस्य स्थाने श्रेय एव भवत्वित्यर्थः। ननु पुण्यं पारलौकिक, अहमैहिकमपि किमपि वाञ्छामीत्याशङ्क्याह हे जीवेशदातः प्राणनाथदातः, जीवाधिकतुल्यमूल्याभावेन यद्यपि ते तुभ्यं दातुं न प्रभवामि समर्थास्मि तथापि तव यशस्तावत्साकल्येन प्रथमतो वा गातुं समर्थास्मि । प्रभवाम्येवेति तावच्छब्दोऽवधारणार्थों वा । ऐहिकं पारलौकिकं च फलं तव विद्यते, तद्रूपेण मूल्येन मह्यं जीवदानं कुर्विति भावः । यद्वा-तावत्तर्ह्यर्थे । यदि ते दातुं न प्रभवामि तर्हि यशोऽपि यशः पुनर्गातुं न प्रभवामि, अपि तु प्रभवाम्येव । पण्यम् ‘पणपाद्-' इत्यादिनार्थार्थे यत् । पूर्वोक्तफलद्वयाभावेऽपि साधव उपकुर्वन्तीत्याह वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते । प्राणैः पणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ।। १ 'स्वदृणेष्व-' इति पाठस्तिलकजीवातुसाहित्यविद्याधरीसुखावबोधासंमतः । २ 'असोढुम्' इति साहित्यविद्याधरीसंमतः पाठः । ३ 'अत्र विरोधाभासोऽलंकारः' इति साहित्यवि- द्याधरी। ४ 'अवद्यपण्यवर्या-' इति पाठ उचितः। ५ 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।

3