पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। इत्थं चाभियुक्तयुक्तिभिरयमेव सिद्धान्तपक्षः प्रतिभाति यत्-'श्रीहर्षः ख्रिष्टद्वादशशताब्यु- त्तरार्धे बभूव' इति ॥ अपिच यदाहमिमं संदर्भम् एशियाटिकसभायाः पुरस्तादवाचयं ततः कतिपयदिनानन्तर- मेकस्या अज्ञातपूर्वाया नैषधदीपिकाया नाम टीकायाः खण्डान्युपालप्सि । तत्र चापश्यं यन्नैष- धीयं काव्यं कालिदासादिकाव्येभ्यो बह्वर्वाचीनम्' इति । सा टीका तु अहमदावादसमीपे ढोलकाप्रामे चाण्डुपण्डितेन १३५३ संवत्सरे ( A. D. 1296 ) व्यरचि । तत्र सोऽवोचत् "काव्यं नवम्" इति । इदमपि च अकथयत् "तत्समये विद्याधरविरचिता नैषधीयस्यैकैव टीकासीत्" इति ॥ अहं विद्याधरेण साहित्यविद्याधरोपनाम्ना निर्मितायास्तस्याष्टीकायाः खण्डानि जेस- ल्मीरनगरे अहमदाबादनगरे च प्राप्तवम् ॥ अयं चाण्डुपण्डितष्टीकारम्भे च "श्रीहर्षः शास्त्रार्थे खपितुहीरस्य विजेतारं पण्डितं पुनः स्वयं शास्त्रविचारे स्वबुद्धिविभवेन जित्वा स्वपितुर्वैरं निरयातयत्" इति-राजशेखरस्य वचन- मद्रढयत् ॥ स्वयं च चाण्डुपण्डितः पुनः स्फुटमवोचत्-"श्रीहर्षः स्वपितुर्विजेतुरुदयनस्य कृती: खण्डनखण्डखाद्यनामकग्रन्थेनाऽखण्डयत्" इति । अतश्चाण्डुपण्डितस्येदं कथनं राजशेखरस्यैव मतं साधयति" ॥ इति ॥ तस्य चास्य महाकाव्यस्य यैर्महात्मभिष्टीका कृता तेषां नामानि तत्कृतान्यग्रन्थनामसहितानि संस्कृतग्रन्थग्रन्थकर्तृनामसंग्रहपुस्तकानुसारेण प्रकाश्यन्ते- १ आनन्दराजानकः (काव्यप्रकाशनिदर्शनकर्ता) २ ईशानदेवः १ तथाच तदीयसमाप्तौ श्लोकः- 'श्रीविक्रमार्कसमयाच्छरदामथ त्रिपञ्चाशता समधिकेष्वितेषु । तेषु त्रयोदशसु भाद्रपदे व शुक्लपक्षे त्रयोदशतिथौ रविवासरे च ।। इति ॥ २ तथा च सर्गसमाप्तिश्लोकः- 'श्रीमानालिगपण्डितः स्वसमयाविर्भूतसर्वाश्रमश्चाण्डूपण्डितसंज्ञितं प्रसुषुवे श्रीगौरिदेवी च यम् । वुद्धा श्रीमुनिदेवसंज्ञविबुधात्काव्यं नवं नैषधं द्वाविंशे च सवर्णने वितरणं सर्गे च चक्रे कमात्॥' इति ॥ ३ तथाचो क्तम्- 'टीकां यद्यपि सोपपत्तिरचनां विद्याधरो निर्ममे.श्रीहर्षस्य तथापि न त्यजति सा गम्भीरतां भारती । दिकूलंकषतां गतैर्जलधरैरुगृह्यमाणं मुहुः पारावारमपारमम्बु किमिह स्याजानुदन्नं क्वचित् ॥' इति ॥ ४ 'प्रथमं तावत्कविजिगीषुकथायां स्वपितृपरिभावुकमुदयनमत्यमर्षणतया कटाक्षयंस्तद्वन्थग्रन्थीनुद्रन्थयितुं खण्डनं प्रारिप्सुश्चतुर्विधपुरुषार्थैरभिमानमनवधीयमानमवधीर्य मानसमेकतानतां निनाय' इति तत्रया पतिः । ५ इदं च (Catalogus Catalogorum) इति नामकं औफ्रेखट ( Aufrecht) पण्डितेन १८९१ ख्रिस्ताब्दे प्रकाशितम् । तदेतस्य महाशयस्य महोद्योगं वर्णयितुं महेश्वर एवेश्वरः ॥