पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। उन्मत्तमिति ॥ द्वौ उन्मत्तमुन्मत्तवस्तु आसाद्य प्राप्य असीमां निर्मर्यादां मुदं हर्षमुद्वहेते धारयतः। द्वौ कौ-हरो महादेवः, स्मरश्च । तयोर्मध्ये पूर्वो हरः प्रसूनं धुत्तूरपुष्पलक्षणमुन्मत्तं प्राप्य हर्षं धत्ते, द्वितीयः कामो विरहाधिना विरहपीडया दूनं दुःखि तमुन्मत्तमुन्मादद्वन्तं जनं प्राप्य हर्षं धत्ते । नूनमुत्प्रेक्षे । उभयत्र हेतुः-परस्पर्धितया अन्योन्यस्पर्धया । हरशत्रुः स्मरः हरस्योन्मत्तं धुत्तूरकुसुमं हर्षजनकं दृष्ट्वा मयाप्युन्मत्तं जनं प्राप्य हर्षितव्यम्, तथा हरेणापि काम उन्मत्तं प्राप्य हृष्यति चेन्मयापि कामायुधमुन्मत्तं पुष्पं प्राप्य हर्षितव्यमित्यन्योन्यस्पर्धा । शत्रोरस्त्रादि लब्ध्वा सर्वोऽपि तुष्यति । कामोऽप्युन्मत्तं पिशाचं हरसेवकमासाद्य हर्षे धत्ते । शत्रुवस्तुलाभादित्यर्थः। 'उन्मत्त उन्मादद्वति धुत्तूरमुचुकुन्दयोः' इति विश्वः । वहः स्वरितेत्त्वादात्मनेपदम् ॥

तथाभिधात्रीमथ राजपुत्रीं निर्णीय तां नैषधबद्धरागाम् ।
अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥ ९९ ॥

 तथेति ॥ अथ अनन्तरं तेन विहायसा पक्षिणा स्वाभीप्सितसिद्धेर्विहस्य चञ्चूपुटस्य मौनमुद्रा मौनभङ्गिर्भूयः पुनरप्यमोचि त्यक्ता । वक्तुं प्रारब्धम् । किं कृत्वा -तथाभिधात्रीं ’श्रुतश्च दृष्टश्च' इत्यादि भाषमाणां तां राजपुत्रीं भैमी नैषधे नले बद्धोरागःप्रीतिर्यया एवंभूतां निर्णीय निश्चित्य । 'विहायाश्च शकुन्ते स्यात्' इति विश्वः ॥

इदं यदि क्ष्मामापतिपुत्रि तत्त्वं पश्यामि तन्न स्वविधेयमस्मिन् ।
त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणैवाजनि योजनेयम् ॥ १००॥

 इदमिति ॥ हे क्ष्मामापतिपुत्रि राजपुत्रि, यदि इदं पूर्वोक्तं सर्वं तत्त्वं सत्यं, तत्तस्मिकार्ये स्वस्यात्मनो विधेयं करणीयं न पश्यामि । मया करणीयं किमपि नावशिष्यते । तर्हि त्वां विना स्वयमेव कथं भविष्यतीत्यत आह-त्वां नृपं नलं चोच्चकैरतिशयेन तापयता उभयोरपि परस्परं रागाद्विरहपीडां जनयता पञ्चेषुणैव कामेनैवेयं योजना घटना अजनि जनिता । अत एव मद्व्यापारोऽत्र नावशिष्यत इत्यर्थः । तप्तयोः संधिरिति लोहादौ दृश्यते ॥ भैम्यवस्थाः श्रुत्वा नलस्यापि काश्चिद्वस्थाः सूचयन्नाह-

त्वह्वबुद्धेर्बहिरिन्द्रियाणां तस्योपवासवतिनां तपोभिः ।
त्वामद्य लब्ध्वामृततृप्तिभाजां स्वदेवभूयं चरितार्थमस्तु ॥ १०१॥


१ 'अत्रोत्प्रेक्षाव्यतिरेकालंकारः । यदुक्तम्-'शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते॥' इति साहित्यविद्याधरी । 'उभयोरभेदाध्यवसायात्समानधर्मत्वविशेषणमात्रश्लेपात्प्रकृताप्रकृतगोचरवाचोभयश्लेषः । तेन हरवत्स्मरोऽप्युन्मत्तप्रिय इत्युपमागम्यते' इति जीवातुः। 'एतच्छ्लोकद्वयं कवेरेव वाचोयुक्तिः' इति तिलकव्याख्या। २ 'अत्र उक्तमिति पदार्थे 'अमोचि चञ्चूपुटमौनमुद्रा' इति वाक्यार्थरचनम् । तस्मादोजो गुणः । अलंकारश्च छेकानुप्रासः' इति साहित्यविद्याध. री। ३ 'अत्र कामतापो योजनायाः कारणमजनीत्यनेन योजनातीतत्वं प्रतिपाद्यते । 'तापयता' इत्यनेन च तापस्य वर्तमानत्वम् । तस्मादत्र कार्यकारणपौर्वापर्यलक्षणातिशयोक्तिः' इति साहित्यविद्याधरी ।