पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
नैषधीयचरिते

नैषधीयचरिते तृतीयामाह-

अजस्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतां तदाप्य ॥१०६॥

 अजस्रमिति ॥ त्वं दूरदीर्घामतिमहतीं तदीयां नलसंबन्धिनीं संकल्परूपां सोपानततिं सोपानपरम्परां 'भैमीप्राप्तिः कथं भवेत् , प्राप्तौ सत्यामहमेवं करिष्यामि, सा एवं करिष्यति' इत्येवं रूपां मानसविचारलक्षणामजस्रं निरन्तरमारोहसि । त्वत्प्राप्त्युपायादि सर्वदा विचारयतीत्यर्थः । यत्पुनः स नलः अधिकमत्यर्थं श्वासान्निःश्वासान्वर्षति मुञ्चति तत्तव ध्यानाच्चिन्तनात्त्वन्मयतां त्वत्सायुज्यमाप्य प्राप्य त्वत्प्रधानो भूत्वा । त्वय्यनुरागबाहुल्यात्वञ्चिन्तनात्त्वत्प्राप्तेरभावादुःखवशादत्यर्थं निःश्वासान्मुञ्चतीत्यर्थः । योऽतिदीर्घां सोपानपङ्क्तिमारोहति स निःश्वासान्मुञ्चति, अत्र तु विपरीतमित्याश्चर्यम् । तञ्च त्वद्ध्यानात्त्वन्मयत्वप्राप्तौ सत्यां व्यधिकरणत्वाभावात्संगच्छते । त्वद्धर्मा नले युज्यन्ते । तस्मात्त्वत्सायुज्यं तस्य जातमित्यनुमीयत इति भावः। अथ च यो यं ध्यायति स तन्मयो भवति । 'योगप्रभावात्प्रह्लादो जातो विष्णुमयोऽसुरः' इति विष्णुपुराणम् । 'आरोहणं स्यात्सोपानम्' इत्यमरः।आप्येत्यत्राङा समासः। तृतीयावस्था तेनानुभूयत इति ॥ सकल्पमेवाह-

हन्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयाते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥१०७॥

 हृदिति ॥ तस्य नलस्य हृदन्तःकरणं रह एकान्ते यत्त्वां मन्त्रयते त्वामुद्दिश्य गुप्तं यद्भाषते भैमी प्राप्य तां प्रत्येवं वदिष्यामि आलिङ्गनादिकं देहीतीति गुप्तं विचारं करोति, मुखं नलमुखं कर्तृ तद् गुप्तभाषणं कर्म व्यक्तं यद् आमन्त्रयते भाषते । मुखस्य पाण्डुताम्लानतादिगुणं दृष्ट्वा त्वामेव ध्यायतीति व्यक्तं ज्ञायत इत्यर्थः । सा तन्मुखस्य नलमुखस्य तद्वैरी नलवैरी पुष्पायुधः कामस्तस्य मित्रचन्द्रस्तेन सह यत्सख्यं मैत्री तस्यौचिती । खलु निश्चये, उत्प्रेक्षायां वा । चन्द्रतुल्यत्वान्नलमुखं चन्द्रमित्रम् । नलः कामस्य शत्रुः पीड्यमानत्वात् । चन्द्रोऽपि मदनमित्रं तद्वृद्धिकरत्वात् । मित्रं च मित्रस्य कार्य करोति । नलो मन्त्रलक्षणां शक्तिं प्रयुङ्क्ते । नल एवंविधं मन्त्रं करोतीति नलशक्तेर्मदनस्याने मदनमिन्त्रेण कथनीयम् । नीतिज्ञा हि मित्रमित्रेणापि रिपुमन्त्रभेदं कुर्वन्ति । तच्चन्द्रमिन्त्रेण नलमुखेन कृतमिति भावः। मुखे पाण्डुत्वादिगुणदर्शनादतिश- येन त्वद्विषयां चिन्तांकरोतीति स्पष्टं शायत इत्यर्थः । 'सप्तम्यर्थे रहोऽव्ययम्' इत्यमरः। 'मत्रि गुप्तभाषणे ॥ १ 'तामवाप्य' इति सुखावबोधासंमतः पाठः। २ 'अत्रासंगत्यलंकाराभासः' इति साहित्यविद्याधरी। 'अत्र श्वाससोपानारोहणयोः कार्यकारणयोवैयधिकरण्योक्तेरसंगत्यलंकारः। 'कार्यकारणयोभिन्नदेशत्वे स्यादसंगतिः' इति लक्षणात् । तन्मूला चेयं नलस्य दमयन्तीतादात्म्योत्प्रेक्षेति संकरः' इति जीवातुः । ३ 'अत्रोत्प्रेक्षालंकारः'

इति साहित्यविद्याधरी ।