पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
नैषधीयचरिते

नैषधीयचरिते तनूकृत्य कियान्स्वल्पः स्वभावोऽपि लूनः छिन्नः किमिति सहेतुकोत्प्रेक्षा । धर्मशीलत्वादयं सर्वदा पातकाद्बिभेति । दासत्वे च राजत्वाल्लज्जते इत्यस्य स्वभावः। स तु त्वत्प्राप्तिलोभेन न दृश्यते । शरीरस्यातिकार्यात्स्वभावस्यापि कार्श्यं जातमित्यनुमीयत इत्यर्थः । त्रपानाशावस्थोक्ता। त्वत्प्रापकादित्यादिना त्वदन्यविषयनिवृत्तिरेव तात्पर्यवृत्त्या वर्ण्यत इति श्लोकतात्पर्यम् । अतितक्ष्येति स्वभावापगमे हेतुत्वार्थमुक्तं, न तु तनुतावस्थाप्रतिपादनार्थम् । शरीरस्यातितक्षणे स्वभावस्य लूनत्वं संभाव्यत इति द्योतनार्थमतिशब्दतीक्ष्णशब्दप्रयोगौ । एनसः, 'भीत्रार्था-' इति पञ्चमी' ॥ पुनस्रपानाशमेवाह-यद्वा प्रथमतस्त्रपानाशं वर्णयितुमाह-

स्मारं ज्वरं घोरमपत्रपिष्णोः सिद्धागदंकारचये चिकित्सौ।
निदानमौनादविशद्धिशाला सांकामिकी तस्य रुजेव लजा॥१११॥

 स्मारमिति ॥ तस्य नलस्य विशाला महती लज्जा सिद्ध चिकित्सासमर्थेऽगदंकारचये वैद्यसमूहे निदानमौनादादिकारणविषये मौनादादिकारणस्याज्ञानादविशत्प्रविष्टा। किंभूतस्य-अपत्रपिष्णोर्लज्जाशीलस्य । किंभूते-स्मारं मदनजनितं घोरं दारुणं ज्वरं चिकित्सौ प्रतिकुर्वाणे । केव-संक्रमेण जनिता सांकामिकी संसर्गजनिता रुजेव रोग इव । क्षयादिाधिः क्षयिणं परित्यज्य यथान्यं संसर्गिणं प्रविशति तथा लज्जाशीलस्य तस्य लज्जया भवितव्यम् । सा च तं विहाय वैद्यसमूहे दृश्यते कार्यनिदानाज्ञानात् । 'अक्षिरोगो ज्वरः कुष्ठं तथापस्मार एव च। सहभुक्त्यादिसंबन्धात्संक्रामन्ति नरान्तरम्॥' इति । वैद्यैः पृष्टेन तेन लजां विहाय ज्वरनिदानं यदैव कथितं तदैवास्माभिन ज्ञातमित्युक्त्वा लज्जितम् । 'लज्जाशीलोऽपत्रपिष्णुः' इत्यमरः । ज्वरम्, 'न लोका-' इति षष्ठीनिषेधाद्द्वितीया । अपत्रपिष्णोः, 'अलंकृञ्-' इतीष्णुच् । अगदं रोगरहितं करोतीति 'अगदंकारः' । कर्मण्यणन्ते कारशब्दे उत्तरपदे 'कारे सत्यागदस्य' इति मुम् । सांक्रामिकी अध्यात्मादित्वाट्ठकि अनुशतिकादित्वादुभयपदवृद्धिः॥ अष्टमीमाह-

बिभेति रुष्टासि किलेत्यकस्मात्स त्वां किलापेति हसत्यकाण्डे ।
यान्तीमिव त्वामनु यात्यहेतोरुक्तस्त्वयेव प्रतिवक्ति मोघम् ॥ ११२॥

 विभेतीति ॥ स नलः हे भैमि, त्वं रुष्टासि कुपितासि किलेति संभाव्य अकस्मात्त्वं कोपेन विनैव बिभेति भयं प्राप्नोति । तथा-किल मिथ्याभूतां त्वामाप प्राप्तवानिति कृत्वा अकाण्डेऽसमय एव त्वत्प्राप्तिं विनैव सुखातिशयाद्धसति । तथा—यान्तीमिव गच्छन्तीमिव त्वामनुलक्षीकृत्य अहेतोर्निकारणं याति । तथा त्वयोक्त इव संभाषित इव आगच्छामि, त्वदादिष्टं मया कृतमित्यादि मोघं निष्फलं प्रतिवक्ति प्रतिवचनं ददाति । उन्मादावस्था १ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'अत्र त्रपानाशलक्षणा स्मरदशोक्ता । अत्र वैद्येषु- विषये लज्जान्तरस्यारोपादपह्नुतिरुपमालंकारः' इति साहित्यविद्याधरी। ३ 'अत्रोत्प्रेक्षालंकारः'

इति साहित्यविद्याधरी।