पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसवद्विलासे । स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्त- मादाविव व्द्यव्ययणुककृत्परमाणुयुग्मम् ॥ १२५ ॥ अन्योन्येति ॥ अधुनोभयसंबन्धानन्तरं अन्योन्यसंगमवशात्परस्परसंयोगवशाद्विक सन्विलासो विभ्रमो ययोस्ते तस्यापि नलस्यापि तेऽपि तवापि मनसी परमाणुयुग्म मिव विभातां शोभेताम् । किंभूतं परमाणुयुग्मम्-मनसिजस्य कामस्य तनुं शरीरं पुनः स्रष्टुं प्रवृत्तम् । अत एवादौ व्द्यणुकं करोतीति. व्द्यणुककृत् । 'सक्रियाभ्यां द्वाभ्यां परमाणुभ्यामेकं व्द्यणुकमारभ्यते, एवं क्रमेण महत्कार्यमारभ्यते' इति सिद्धान्तः। दग्धस्य कामस्य मनोजन्यत्वान्मनसिजत्वम् । ततश्च तदुत्पत्त्यर्थं मनोद्वयेन व्द्यणुकमार ब्धव्यम् । तत्तु येन केनचिन्मनोद्वयेन कर्तुं न शक्यते, एतादृशपरस्परानुरागस्य कुत्र- चिदप्यभावात् । ततश्च युवयोरेव मनोद्वयेन कर्तुं शक्यते नान्येनेति भावः । युवयोः परस्पररागबाहुल्यात्कामः शरीरी स्यादिति भावः॥1 कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनु- र्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ । ग्रीवालंकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बया भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥ १२६ ॥ काम इति ॥ असौ कामः कौसुमेन चापेन दुर्जयं जेतुमशक्यममुं नृपं नलं जेतुमव्रणे निर्दोषे वंशे जाताम् , अथ च घुणादिजन्यव्रणरहितवेणुजातामधिगुणामतिशयितसौ- न्दर्यादिगुणयुक्तां, आरोपितमौर्वीकां च त्वां त्वन्मयीं धनुर्वल्ली धनुर्लतामासाद्य प्राप्य माद्यति अधुना नलं जेष्यामीति तुष्यति । किंभूतां धनुर्वल्लीम्-निवसता विद्यमानेन सिन्दूरेण सौन्दर्य लोहितिमा यस्यां तया (पृष्ठे) धनुःपृष्ठभागे, अथच पश्चाद्भागे कि- यल्लम्बया कियदीर्घया ग्रीवा मध्यं कण्ठश्च तस्या अलंकृतिरलंकारभूता पट्टसूत्रलता तया दीर्घेण पट्टसूत्रेणेत्यर्थः । भ्राजिष्णुं शोभमानाम् । कयेव-कषरेखयेव परीक्षारेख- येव । कषणधारया धनुर्योग्यवेणुपरीक्षायां निघृष्यमाणं सिन्दूरं चलति चेत्तदा परि- पाको ज्ञेय इति धानुष्कप्रसिद्धिः। कामस्य त्वां विना नलवशीकरणं किमपि न विद्यत इति भावः । भ्राजिष्णुम् , 'भुवश्च' इति चकारादिष्णुच् 2॥ १ 'अत्रोत्प्रेक्षालंकारः' । अत्र वसन्ततिलकावृत्तम् । यदुक्तं वृत्तरत्नाकरे-'उक्ता वसन्ततिलका तमजा जगौ गः' इति साहित्यविद्याधरी। २ 'अत्र रूपकोपमालंकारः' । अत्र वक्ष्यमाणे च श्लोकद्वये शार्दूल विक्रीडितं वृत्तम् । यदुक्तम्-'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति साहित्यविद्याधरी। 'श्लेषोत्प्रेक्षासंकीर्णो रूपकालंकारः' इति जीवातुः।