पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
नैषधीयचरिते

नैषधीयचरिते त्वङ्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो- र्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् । यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस- न्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥ १२७॥ त्वदिति ॥ हे भैमि, त्वं विभोः मनोभुवः कामस्य त्वद्गुच्छावलेः तव हारविशेषपङ्क्ते- मौक्तिकान्येव गुलिकाः सूक्ष्मान्मृद्गोलकान्विद्धि जानीहि । तथा-तं राजहंसं नृपश्रेष्ठं नलं वेध्यम् , अथच तं नलमेव राजहंसाख्यं पक्षिविशेषं कामस्य वेध्यं लक्ष्यं विद्धि । तथा स्वमात्मानमपि तां वक्ष्यमाणगुणयुक्तां मञ्जुं मनोज्ञां धनुर्मञ्जरी धनुर्लतां जा- नीहि । तव रोमाली रोमराजिर्यस्या धनुर्लताया नित्यं सर्वदाङ्कनिवासो मध्यवसति- स्तया लालिततमातिशयेन नर्तिता शोभमाना ज्या मौर्वी तया भुज्यमानं सेव्यमानम- नुभूयमानं वाखिलं विलासं चापमध्यवर्तिशोभमानमौर्व्याः संपूर्णां लीलामालम्बते- ऽङ्गीकरोति । रोमराजिरेव मौर्व्याः स्थाने जातेत्यर्थः। किंभूता रोमालिः-लसन्ती ना- भ्येव मध्यं बिलं यस्याः सा । गुलिकाधारणच्छिद्रस्थाने नाभिरेव जातेत्यर्थः । गुलिका- धनुरिति नाम(क)त्वद्रूपेण शस्त्रेण नलः कामस्य जय्यो नान्येनेति भावः। धनुर्मौर्वी- मध्ये गुलिकारोपणस्थानबिलं भवति, तदत्र नाभिरेव, रोमालिर्मौर्वी, अङ्गयष्टिर्धनुः, स राजहंसो वेध्य इत्यर्थः। विभुस्तु गुलिकाधनुःक्रीडां करोति । 'हारभेदा यष्टिभेदा गु. च्छगुच्छार्धगोस्तनाः' इत्यमरः । 'राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः' इति विश्वः1 ॥ पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे । निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना पत्तालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥ १२ ॥ पुष्पेषुरिति ॥ तेन नलेन सौन्दर्यादिना गुणेन जितोऽत एव निर्विद्य वैराग्यं प्राप्य यः पुष्पेषुः कामस्ते तव चिकुरेषु केशपाशेषु पुष्पेषुत्वात्स्वं शरचयं बाणसमूहं पुष्पसमूह चिक्षिपे त्यक्तवान् । तव भालमूले ललाटमूले भूस्थाने स्वं धनुस्त्यक्तवान् । रौद्रे रुद्रसं- वन्धिनि दारुणे चक्षुष्यनुभ्राष्ट्रे तृतीयनेत्रलक्षणे भर्जनपात्रे स्वीयां तनुं च चिक्षिपे क्षि- तवान् । स कामोऽधुना वितनुः शरीररहितोऽथ च विशेषेण कृशः सन् तज्जयाय तं नलं जेतुं त्वामेवाश्रयमाश्रयत् । तथा-तव उरोजौ स्तनावेव शैलौ तावेव निलयः स्थानं यस्याः सा तत्र विद्यमाना पत्रालिः पत्रवल्लीपङ्क्तिः तस्य कामस्य पर्णशालेवाच- रति भवति । भैमीकेशपाशपुष्पाणां कामजनकत्वात्कामबाणत्वम् । भ्रुवोरपि कामजन- १ 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी । 'अत्रं मौक्तिकादौ गुलिकाद्यवयवरूपणादवयवि-

नि कामे वेद्धृत्वरूपणस्य गम्यमानत्वादेकदेशविवर्ति सावयवरूपकमलंकारः' इति जीवातुः।