पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। कान्तारे निर्गतासि प्रियसखि पदवी विस्मृता किं नु मुग्धे मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥१३२॥ अस्तित्वमिति ॥ अथ तयोर्मध्ये एको हंसो निषधनरपतौ नलसमीप एतत्सर्व वृत्तं निष्पन्नम् । वचसेति शेषः । आख्यातुं कथयितुं प्रतस्थे । किं कुर्वन्-पक्षयोः कम्पभेदैः कम्पविशेषैः

कृत्वा भैमीप्राप्तिरूपायाः कार्यसिद्धरस्तित्वं सद्भावं स्फुटं कथयन् । इति

पूर्वोक्तमार्गेणोपहृतमुक्तं वचो याभिस्ता वयस्यः सख्योऽन्यां भैमी निन्युः। गृहं प्रापया- मासुरित्यर्थः । इति किम् हे प्रियसखि, त्वं कान्तारे दुर्गमे वर्त्मनि विषये निर्गतासि प्रस्थितासि नु, अयि मुग्धे भ्रान्तचित्ते भैमि, पदवी मार्गः विस्मृता किं त्वया, त्वं मा रोदीः, एह्यागच्छ । वयं सर्वा मिलित्वा याम गृहं प्रति गच्छाम इति पक्षकम्पनविशेषः कार्यसिद्धिसूचकः । अन्योऽपि हस्तचालनादिना कार्यसिद्धिं कथयति । 'कान्तारं वर्त्म दुर्गमम्' इत्यमरः । अस्तीत्यव्ययात् त्वप्रत्ययः । आख्यातेति वा पाठः॥1 सरसि नृपमपश्यद्यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् । किशलयदलतल्पम्लायिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पर्धिमौलेः ॥ १३३ ॥ सरसीति ॥ स हंसो यत्र सरसि नृपं पूर्वमपश्यत्तस्य सरसस्तीरं भजते तस्य अशो- कानोकहस्याशोकवृक्षस्य उपमूलं मूलसमीपे तं नलं प्राप । किंभूतम्-स्मरतरलं मद- नजनितपीडया चञ्चलम् । तथा -किसलयानामग्रपल्लवानां दलानि कोमलाङ्कुरास्तेषां तल्पं शय्या तस्यामपि म्लायिनं म्लानशीलम् । किंभूतस्यानोकहस्य-ज्वलन्तो देदी- प्यमाना असमशरेषवः कामबाणास्तैः सह स्पर्धन्ते एवंशीलानि पुष्पाणि तेषामृद्धिः समृद्धिस्तद्युक्तो मौलिरग्रभागो यस्य । विरहव्यथया हसं प्रतीक्षमाणस्तत्रैव स्थितो यत्र पूर्व हंसेन दृष्टः । अशोकपुष्पाणां रक्तत्वाज्ज्वलत्कामबाणतुल्यत्वम्2 ॥ परवति दमयन्ति वां न किंचिवदामि द्रुतमुपनम किं मामाह सा शंस हंस । इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥ १३४ ॥ परवतीति ॥ नले उन्मादवशादिति वदति असौ हंस उपनम्रः समीपमागतः सन् तद्भैमीवृत्तान्तं सर्व शशंस कथयति स्म । इतीति किम्-चित्ते प्रत्यक्षीकृतां भैमी प्र- १ 'अत्रोत्प्रेक्षालंकारः। स्रग्धरा वृत्तम्' इति साहित्यविद्याधरी। २ 'अत्रोपमालंकारः' इति सा- हित्यविद्याधरी।