पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
नैषधीयचरिते

नैषधीयचरिते त्याह । एवं हंसमपि-हे परवति पित्रधीनत्वात्परतन्त्रे दमयन्ति, अहं त्वां प्रति अ- द्यापि नागच्छसीत्यादि किमपि न वदामि । स्वातन्त्र्याभावात् । हे हंस, त्वं द्रुतं शीघ्र- मुपनम मत्समीपमागच्छ।सा भैमी मामुद्दिश्य किमाहाब्रवीत्तच्छंस कथयेति।वाक्यार्थः कर्म।तद्वचनानन्तरमेवायं गत्वा कथं कथितवानित्याशङ्क्याह-प्रियमिति । हि यस्मात्सु- कृतां धार्मिकाणां प्रियं स्वाभीष्टमनुलक्षीकृत्य स्वस्पृहायाः स्वेच्छाया एव विलम्बो, न त्वन्यस्य । यदैव तेषां वस्तु प्राप्तुमिच्छा भवति तदैव पुण्यवशात्प्राप्नुवन्तीति भावः । 'क्व स्पृहायाः' इति केचित् । स्पृहाया विलम्बः क्वेति योजनीयम् । सुकृताम् , 'सुकर्म- पापमन्त्रपुण्येषु नः' इति क्विम् । आहेति विभक्तिप्रतिरूपकमव्ययं भूतार्थे ॥ कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन्भाषितं स प्रियायाः । अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः स्वयमपि शतकृत्वस्ततथान्वाचचक्षे ॥ १३५॥ . कथितमिति ॥ स नरेन्द्रो नलो हंसेन कथितमपि प्रियाया भैम्या भाषितं वचनं किमिति किमिति कीदृक्कीदृगित्येवमादातिशयेन हंसं पृच्छञ्शंसयामास वादयति स्म । अथानन्तरं सान्द्रो निबिड आनन्द एव माध्वीकं मधु तेन मत्तो हृष्टः सन् अधिगतं ज्ञातार्थ तद्भैमीभाषितं स्वयमपि शतकृत्वोऽनेकवारं हंसेन, यथोक्तं तथैव ईदृग्भैम्योक्तमीदृग्भैम्योक्तमिति शिरःकम्पाद्यभिनयेनान्वाचचक्षेऽनूदितवान् । अत्यादृतस्येयं जातिः। मद्य(त्त)विशेषश्चोक्तमपि पुनर्वादयति स्वयमपि पुनर्वदति । 'मधु माध्वीकमद्ययोः' इत्यमरः। 'मार्द्वीक' इति पाठे मृद्वीकाया द्राक्षाया विकारो मार्द्वीकम् । शंसे शब्दकर्मत्वादणौ कर्तुर्ण्यन्ते कर्मसंज्ञा । शतवारं शतकृत्त्वः 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुच्3 ॥ श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तातीर्यीकतया मितोऽयमगमत्तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥१॥ श्रीहर्षमिति ॥ तार्तीयीक इति द्वैतीयीकवत् ॥ इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे तृतीयः सर्गः ॥ १ 'अत्रार्थान्तरन्यासोऽलंकारः' इति साहित्यविद्याधरी । २ 'अत्र जातिरलंकारः। अत्र श्लोके पूर्वश्लो-

कद्वये च मालिनीवृत्तम्' इति साहित्यविद्याधरी।