पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
नैषधीयचरिते

नैषधीयचरिते स्मरेति ॥ दमस्वसुर्भैम्याः करयुगं स्मरशरैः आहतिर्हननं तया निर्मितः कृतः संज्वरः संतापो यस्य एवंभूतं सत्तपेन ग्रीष्मेण निपीतं. सरः तस्मिन्विद्यमानं सरोरुहं कमलं हसति स्म । तत्तुल्यं जातमिर्त्यः । किंभूतं कमलम्-अनपिधानो निष्प्रतिबन्धः पतंस्त- पनातपः सूर्यातपो यस्मिन् । ग्रीष्मसंबन्धिकमलवदतितरां संतापोऽनुभूयत इत्यर्थः1 ॥ मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्मतिबध्नती ॥१०॥ मदनेति ॥ दमनस्वसुः हृदा हृदयेन मदनतापभरेण मदनजनितज्वरबाहुल्येन कृत्वा विदीर्य स्फुटित्वा यद् नो उदपात्युत्पतितम् , निबिडं निरन्तरं पीनं पीवरं कुचद्वयं तेन कृता यन्त्रणा बन्धनं प्रतिबध्नती सती तं विदीर्यानुत्पतनलक्षणमपराधमधाद्दधार । विरहसंतापभराद्भैमीहृदयं विदीर्य गन्तुकामं जातमपि स्तनद्वयेन तमपराधं सोढ्वापि रक्षितम् । अन्यथा गतमेव स्यात् । स्तनद्वयस्यायमपराधो न तु हृदयस्य । अथ च तमप- राधमधात्पीतवती । उत्पतनशीलस्य वस्त्रादेः पाषाणादिना कृता यन्त्रणा प्रतिबन्धं करोति । पूर्वनिपातभिया पूर्व पीनशब्दस्योत्तरेण समासं कृत्वा निबिडपदेन समासः कर्तव्यः । अधात्, धाब्धेटोरपि लुङि 'घुमास्था-' इति सिचो लुकि रूपम् 3॥ चिन्तामाह- निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम्। मृदुतनोर्तिनोतु कथं न तामवनिभृतु निविश्य हृदि स्थितः॥११॥ निविशत इति ॥ 'शूकोऽस्त्री लक्ष्णतीक्ष्णाग्रे' (इत्यमरः)। शूकशिखा धान्यकण्टका- ग्रमानं पदे चरणे यदि निविशते प्रविशति सा शूकशिखा कियतीमिव व्यथां न सृजति करोति, अपितु महतीं पीडां करोति । अतः कारणान्मृदुतनोरतिकुसुमार्या भैम्या हृदि निविश्य प्रविश्य स्थितोऽवनिभृत्पर्वतो नलश्च, तु पुनस्तां व्यथां कथं न वितनोतु करोतु, करोत्येव । नलस्तु तस्या हृदयं प्रविश्य स्थितः परं तया न प्राप्तः। अतस्तं सर्वदा विचिन्तयन्त्यास्तस्या भूयसी व्यथा जातेति भावः । इवशब्दो वाक्यालं- कारे । निविशते, 'नेर्विशः' इति तङ् ॥ १ 'अत्रोमपालंकारः' इति तिलकसाहित्यविद्याधर्यो । 'सहतीयति असूयति' इति दण्डिना सह- शपर्याये पठितत्वादुपमालंकारः' इति जीवातुः। २ 'अत्रातिशयोक्तिरलंकारः' इति तिलकसाहित्य- विद्याधर्यो । 'अत्रातिदाहेऽप्यस्फुटने हृदयस्यायुःशेषो निबन्धनम् । तस्य कुचयन्त्रणानिमित्तत्वमुत्प्रेक्षते । सा च व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः। ३ 'अत्रातिशयोक्तिः' इति तिलकाख्यव्याख्या । 'अत्रा- तिशयोक्तिर्द्रव्यक्रियाविरोधश्चालंकारः' इति साहित्यविद्याधरी । 'अत्र ‘पादे सूक्ष्मकण्टकप्रवेशे दुःसहा

व्यथा किमुत मृद्वङ्गया हृदि महत्प्रवेशेन' इति कैमुत्यन्यायेनार्थान्तरापत्तेरांपत्तिरलंकारः' इति जीवातुः ।